SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ १९८ १५४ १३ १०२ १२२ १५४ १०२ ३० कौमुदीमित्रानन्दरूपकम् ३५. नवकान्तिमण्डनानामपि मुक्तानां शुक्तिसम्पुटस्थितानाम् । गुणसङ्गममलभमानानां निष्फलो जन्मसंरम्भः।। (प्रा०प०) ३६. नव्यं नव्यमुदेति कन्दलमहो! प्रातीपिके वेधसि। ९ ३७. निजभुजदण्डाभ्यां हि वणिजां द्रविणोपार्जनं मण्डनं न तु खडनम्।१ ३८. निष्काङ्क्षमुपकारोऽपि विश्वोत्तीर्णा सतां क्रिया। अप्रकाशस्तु यस्तस्य तत्र ब्रह्माऽपि मन्थरः।। ६ ३९. निसर्गसौहृदाज्ञातकायवाङ्मनसक्लमाः।। बालाः कथं नु जीवेयुर्न भवेज्जननी यदि। ४०. नैकस्य संलापश्रवणेन निर्णयः कर्तुं शक्यते।। ४१. पञ्चषाः सन्ति ते केचिदुपकर्तुं स्फुरन्ति ये | ये स्मरन्त्युपकारस्य तैस्तु बन्ध्या वसुन्धरा।। ६ ४२. पदार्थः कोऽप्यनोऽपि स्थितः पुंसि लघीयसि। महत्त्वक्षीवचित्तेषु महत्सु खलु नार्घति।। २ ४३. परस्मादुपकारो यः सोऽपि व्रीडावहः सताम् । तस्याप्रत्युपकारस्तु दुनोत्यन्तः पशूनपि।। १० ४४. परस्य शर्मणः सत्यं प्रत्यूहो हरिणीदृशः। भवेऽपि तद् यदि क्वापि तदा ता एव हेतवः।। ४५. परोपकारः क्रियते स्वस्य कल्याणहेतवे। ततोऽपि यद्यकल्याणं कल्याणात् तत् पदं परम् ।। ४६. परोपनीतशब्दार्थाः स्वनाम्ना कृतकीर्तयः। निबद्धारोऽधुना तेन विश्रम्भस्तेषु कः सताम् ।। ५७. पुरन्ध्रीणां प्रेमग्रहिलमविचारं खलु मनः। ४८. प्रकृतिसुभगे पात्रे वेषो यदेव तदेव वा। ४९. प्रत्युपकारमाधातुमनुरूपं निरोजसः। उपकारं स्मरन्तोऽपि विस्मरन्ति महौजसः।। ५०. प्रभञ्जनप्रकोपप्रभवानामङ्गस्फुरणानां शुभाशुभोदर्केषु को नाम विश्रम्भः। ५१. प्राची चुम्बति चण्डरोचिषि जगद्वैचित्र्यमालम्बते। ५२. प्राणेभ्यो नापरं वस्तु प्रेमपात्रं वपुष्मताम् । ६ १७२ १४३ २४ १०० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002080
Book TitleKaumudimitranandrupakam
Original Sutra AuthorRamchandrasuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1998
Total Pages254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Philosophy, Religion, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy