________________
१८४
पुरिसे सीलवं सुयवं, उवरए विन्नायधम्मे, एस णं गोयमा ! मए पुरिसे सव्वाराहए पन्नत्ते, तत्थ णं जे से चउत्थे पुरिसजाए से णं पुरिसे असीलवं असु तवं, अणुवरए अविण्णायधम्मे, एस णं गोयमा ? मए पुरिसे सव्वविराहए पन्नत्ते ॥ ( सूत्रं ३५४) ॥
'रायगिहे' इत्यादि, तत्र च ' एवं खलु सीलं सेयं १ सुयं सेयं २ सुयं सेयं ३ सीलं सेयं ४' इत्येतस्य चूर्ण्यनुसारेणव्याख्या- ' एवं ' लोकसिद्धन्यायेन 'खलु' निश्चयेन इहान्यूथिकाः केचित् क्रियामात्रादेवाभीष्टार्थसिद्धिमिच्छन्ति न च किञ्चिदपि ज्ञानेन प्रयोजनं निश्चेष्टत्वात् घटादिकरणप्रवृत्त ? आकाशादिपदार्थवत्, पठ्यते च"क्रियैव फलदा पुंसों, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥ " तथा " जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं खु नाणी चरणेण हीणो, नाणस्स भागी नहु सोगई ||१२|| " [यथा चन्दनभारवाही खरो भारभाग् न चैव चन्दनस्य । एवं चरणहीनो ज्ञानी ज्ञानभाग् न तु सुगतेः || १ || ] अतस्ते प्ररूपयन्ति - शीलं श्रेयः प्राणातिपातादिविरमणध्यानाध्ययनादिरूपा क्रियैव श्रेयः - अतिशयेन प्रशस्यं श्लाघ्यं पुरुषार्थसाधकत्वात्, श्रेयं वा-समाश्रयणीयं पुरुषार्थविशेषार्थिना, अन्ये तु ज्ञानादेवेष्टार्थसिद्धिमिच्छन्ति न क्रियातः, ज्ञानविकलस्य क्रियावतोऽपि फलसिद्ध्यदर्शनात्, अधीयते च-‘“विज्ञसिं फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात्प्रवृत्तस्य, फलासंवाददर्शनात् ॥१॥ " तथा - पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । अन्नाणी किं काही किं वा नाहीइ छेयपावयं ॥ १॥" [ प्रथमं ज्ञानं ततो दयैवं सर्वसंयतेषु तिष्ठति अज्ञानी किं करिष्यति किं वा ज्ञास्यति छेकं पापकं वा ॥१॥] अतस्ते प्ररूपयन्ति - श्रुतं श्रेयः श्रुतं श्रुतज्ञानं तदेव श्रेयः - अतिप्रशस्यमाश्रयणीयं वा पुरुषार्थसिद्धिहेतुत्वात् न तु शीलमिति, अन्ये तु ज्ञानक्रियाभ्यामन्योऽन्यनिरपेक्षाभ्यां फलमिच्छन्ति, ज्ञानं क्रियाविकलमेवोपसर्जनीभूतक्रियं वा फलदं क्रियाऽपि ज्ञानविकला उपसर्जनीभूतज्ञाना वा फलदेति भावः, भणन्ति च - " किञ्चिद्वेदमयं पात्रम्, किञ्चित्पात्रं तपोमयम् । आगमिष्यति तत्पात्रम्, यत्पात्रं तारयिष्यति ॥९॥” अतस्ते प्ररूपयन्ति - श्रुतं श्रेयः तथा शीलं श्रेयः ३, द्वयोरपि प्रत्येकं पुरुषस्य पवित्रतानिबन्धनत्वादिति, अन्ये तु व्याचक्षते - शीलं श्रेयस्तावन्मुख्यवृत्त्या तथा श्रुतः - श्रुतमपि श्रेयो गौणवृत्त्या तदुपकारित्वादित्यर्थः इत्येकीयं मतम्, अन्यदीयमतं तु श्रुतं श्रेयस्तावत्तथा शीलमपि श्रेयो गौणवृत्त्या तदुपकारित्वादित्यर्थः, अयं चार्थ इह सूत्रे काकुपाठाल्लभ्यते, एतस्य च प्रथमव्याख्यानेऽन्ययूथिकमतस्य मिथ्यात्वम्,
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org