________________
१६७
गाधा । सव्वे त्ति मूल साहप्पसाहभेदिणो । अप्पप्पणो अभिप्पारण वत्थुस्सरूवं णयंतीति णया । बहुविधा-अणेगप्पगारा । एगस्स णयस्स भेदा जे ते वत्तव्वया भण्णति, अहवा एगस्स वत्थुणो पज्जवा जे ते वत्तव्वता, अधवा वत्तव्वगं तं जीवादितत्त्वं सप्रभेदं णायव्वं । णिसामेत्ता सोतुं अवधारितुं वा णिसामित्तुं । एतम्मि बहुविहणय वत्तव्वय पज्जयम्मि किं सव्वणयविसुद्धं ? उच्यते-तं सव्व इत्यादि । चरणमेव गुणो चरणगुणो, अहवा चरणं-चारित्तं, गुणा-खमादिया अणेगविधा, एतेसु जो जहट्ठितो साधू सो सव्वणयसम्मतो भवतीति !
__ (हा०) इत्थं ज्ञानक्रियास्वरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्त्वम्, पक्षद्वयेऽपि युक्तिसंभवात् ? । आचार्यः पुनराह-सव्वेसि पि गाहा, अथवा ज्ञानकियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाह-सव्वेसिं पि गाहा, सर्वेषामिति मूलनयानाम्, अपि- शब्दात् तद्भेदानां च नयानां द्रव्यास्तिकादीनां बहुविधवक्तव्यतां सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम्, अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां निशम्यश्रुत्वा तत् सर्वनयविशुद्धं सर्वनयसंमतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात् सर्वनया एव भावनिक्षेपमिच्छन्तीति गाथार्थः ।
(हे) ननु पक्षद्वयेऽपि युक्तिदर्शनात् किमिह तत्त्वमिति न जानीम इति शिष्यजनसम्मोहमाशङ्क्य ज्ञान-क्रियानयमतप्रदर्शनानन्तरं स्थितपक्षं दर्शयन्नाहसव्वेसिपि गाहा, व्याख्या-न केवलमनन्तरोक्तनयद्वयस्य, किं तर्हि ? सर्वेषामपि स्वतन्त्रसामान्य-विशेषवादिनां नाम-स्थापनादिवादिनां वा नयानां वक्तव्यतां परस्परविरोधिनी प्रोक्ति निशम्य-श्रुत्वा तदिह सर्वनयविशुद्धं- सर्वनयसम्मतं तत्त्वरूपतया ग्राह्यम्, यत् किमित्याह-यच्चरणगुणस्थितः साधुः, चरणं चारित्रक्रिया, गुणोऽत्र ज्ञानम्, तयोस्तिष्ठतीति चरणगुणस्थः, ज्ञान-क्रियाभ्यां द्वाभ्यामपि युक्त एव साधुः मुक्तिसाधको न पुनरेकेन केनचिदिति भावः । तथाहि-यत्तावज्ज्ञानवादिना प्रोक्तं यद्येन विना न भवति तत्तन्निबन्धनमेवेत्यादि, तत्र तदविनाभावित्वलक्षणो हेतुरसिद्ध एव, ज्ञानमात्राविनाभाविन्यां पुरुषार्थसिद्धेः क्वाप्यदर्शनात्, न हि दाहपाकाद्यर्थिनां दहनपरिज्ञानमात्रादेव तत्सिद्धिर्भवति, किन्तु तदानयन-सन्धुक्षणज्वलनादिक्रियानुष्ठानादपि, न च तीर्थकरोऽपि केवलज्ञानमात्रान्मुक्ति साधयति, किन्तु यथाख्यातचारित्रक्रियातोऽपि, तस्मात् सर्वत्र ज्ञान-क्रियाऽविनाभाविन्येव पुरुषार्थसिद्धिः, ततस्तदविनाभावित्वलक्षणो हेतुर्यथा पुरुषार्थसिद्धर्ज्ञाननिबन्धनत्वं साधयति तथा क्रियानिबन्धनत्वमपि, तामप्यन्तरेण तदसिद्धेरित्यनैकान्तिकोऽप्यसाविति । एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org