________________
१६०
युगपच्छब्दद्वयस्यासम्भव इति । एवमुक्तात् कालादियुगपद्भावासम्भवात् समासवन्यलौकिकवाक्ये युगपच्छब्दयोर्द्वयोरर्थयोश्च वृत्त्यसम्भवाद् युगपद्विवक्षायामवाच्य इत्यवं सर्वैकान्तावक्तव्यप्रतिषेधद्वारेण भाष्यकृता तृतीयविकल्पप्रणयनमकारि प्रेक्षापूर्वकारिणा कथञ्चिदवक्तव्यः, कथञ्चिद् वक्तव्योऽवक्तव्यादिशब्दैरात्मेति निरूपितम्। एतदेव च विकल्पत्रयमधुना भाष्यकारः स्फुटतरं भाष्येण दर्शयति । स्याद्वादो हि धर्मसमाश्रयः स्वसिद्धसत्ताकस्य च धर्मिणः सत्त्वासत्त्वनित्यत्वानित्यत्वाद्यनेकविरुद्धाविरुद्धधर्मकदम्बकाभ्युपगमे सति सप्तभङ्गीसम्भवः, तत्र सङ्ग्रहव्यवहाराभिप्रायात् त्रयः सकलादेशाः, चत्वारस्तु विकलादेशाः समवसेयाः ऋजुसूत्रशब्दसमभिरूद्वैवंभूतनयाभिप्रायेण । तत्रातीतविकल्पत्रयस्वरूपभावनायेदमुच्यते
___ भा०-पर्यायास्तिकस्य सद्भावपर्याये वा, सद्भावपर्याययोर्वा, सद्भाव'पर्यायेषु वा आदिष्टं द्रव्यं वा, द्रव्ये वा, द्रव्याणि वा सत् ।
___टी०-पर्यायास्तिकस्येत्यादि । पर्यायास्तिकग्रहणं धर्मविषयस्याद्वादप्रतिपत्त्यर्थम्, धर्मास्त्वरूपित्वसत्त्वमूर्तत्वादिरूपा धर्मिणः परिणामिनो नात्यन्तव्यतिरिक्ता इत्यतस्तत्प्रणाडिकया धर्मिविषयत्वमपि द्रव्यपर्याययोः संसृष्टत्वादेवं (देवमेव), अत्र च द्रव्यास्तिकपर्यायास्तिकनयद्वयमात्रवस्तुसमाश्रयः सिद्ध्यति स्याद्वादः, अन्यथा पर्यायनयाश्रय एव विकल्पसप्तकेन सकलवस्तुव्यापी स्यात् स्याद्वादः, सतो भवनं भावस्तद्भावलक्षणः परिणामः, स चानेकरूपः क्रमयुगपद्भावित्वात्, सुरमनुष्यादेर्शानदर्शनादेश्चात्मनः सद्भावपर्यायत्वम्, शेषधर्मादिद्रव्यवृत्ताः, पुनरसद्भावपर्यायाः, वर्तमानकालावधिकाः पर्यायाः सद्भावलक्षणाः, ततोऽन्येऽतीतानागतवर्तमानकालविशिष्टास्त्वसद्भावपर्यायाः, तावत् परिणामपर्यायकलापाश्चात्मादयः पदार्थाः, स्वपरपर्यायानन्तस्वभावमेकं द्रव्यं सत्तारूपेण विवक्षितम्, चेतनाचेतनाओँ महासामान्यमुत्सर्गः, पर्यायाः शक्तयोऽनन्ताः, तत्र स्वपर्यायान्वयवत् परपर्यायव्यतिरेकोऽपि वस्तुस्वभावावगतरङ्गम, तन्निवृत्त्यग्रहणे वस्तुसद्भावाग्रहणाद् विनिवृत्तिद्वारेणैवासद्भावपर्यायोपयोगः, न निवृत्तिरभावः, स एव हि तथा स्वभावो विनिवृत्ताशेषान्यविशेषलक्षणो निवृत्तिशब्दवाच्यः, तदेवमन्वयव्यतिरेकयोविधिप्रतिषेधविषययोरनियमातिप्रसङ्गपरिहारार्थं चिदुत्तरकिंवृत्तावद्योत्यविषयं स्याच्छब्दाग्रेसरमपि शब्दसहितं तथाविधान्यतमशब्दविशिष्टं वा धर्मर्मिनिर्देशवाक्यं प्रयुज्यतेऽन्तर्भूतैवकारं गुणप्रधानभावव्यक्तिप्रकृत्यर्थं प्रयुक्तान्यतरैवकारं वा परप्रतिपन्नैकान्तधर्मविशिष्टं वस्तु कथञ्चित् नियमकारिधर्मप्रत्यनीकपर्यायधर्मसम्बन्धीति स्यात् सत् स्यादनित्यनित्यादिधर्मात्मकमित्थं धर्म्यपीति वा स्याद्वादिभिः प्रतिज्ञायते, सुलभहेतुदृष्टान्तत्वात्, अतो द्रव्यास्तिकनयार्पणात् सोऽयं धर्म्यभेदेनैव व्यपदेशः प्रत्यभिज्ञानप्रधानत्वात्, पर्यायार्थिकनिर्देशादस्येदमिति भेदभाक्त्वम्, एकवचनादिप्रदर्शनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org