________________
१५२ कश्चिदंशः प्रतिपन्नदेशकालसङ्ख्याभेदः प्रतिमन्यते द्रव्ये वा द्रव्याणि वेति विकल्पसम्भवः, सच्च त्रिविधमुत्पादादि, तच्च द्रव्येणार्यमाणमङ्गीकृतसङ्ख्याभेदमेवात्मलाभं प्रतिपद्यते, द्रव्यं वा द्रव्ये वा द्रव्याणि वेति, न तु कदाचिद् वचनत्रयप्रतिपाद्यद्रव्यव्यतिरेकेणान्यत् किञ्चित् सदस्ति, यतो द्रव्यमित्यपदिष्टे ‘सत् प्रतीयते, द्रव्ये इत्यपि सती, द्रव्याणि च सन्तीत्येवं व्यस्तेषु समस्तेषु च प्रतीयते द्रव्येष्वेव सत्, द्रव्यमाने नियतवृत्तित्वात्, द्रव्यव्यतिरिक्तपदार्थाभावाच्चान्यत्र नोपलभ्यते, यदि स्यादद्रव्यं किञ्चिद् गुणः कर्मादि वा तत्राप्याशङ्केत सतो वृत्तिः, तत् तु नैवास्तीत्ययमर्थोऽनेन भाष्यवचनेन प्रत्याय्यते-असन्नाम नास्ति, असदिति यस्य नाम संज्ञिनस्तत्संज्ञिरूपमसन्नामकं नास्ति, संज्ञिरूपाभावाद् वा संज्ञा नास्ति, परस्परापेक्षत्वात् संज्ञासंज्ञिनोः, एवं चासच्छब्देन गुणाद्यभाव एवोच्यते, स च गुणाद्यभावो द्रव्यमात्रमेव द्रव्यास्तिकस्येत्युक्तेन प्रकारेण द्रव्यार्थिकस्यार्थपदभावना । अन्ये भाष्यमेवं पठन्ति-असन्नाम नास्त्येव सावधारणोऽसतः प्रतिषेधः, सर्वं द्रव्यमिति सञ्जिघृक्षतो द्रव्यास्तिकस्य हि मातृकापदास्तिकाद्यपि सर्वमन्तर्वसतीति, तस्मात् सदित्युक्ते एषामेकत्वद्वित्वबहुत्वानामन्यतमोक्तौ तदवरोधः सन्मात्रत्वादिति । एवं सङ्ग्रहनयेन स्वाभिप्राये द्रव्यास्तिकमात्रतया प्रकाशिते व्यवहारनयः स्वाभिप्रायमाविष्करोति मातृकापदास्तिकोपन्यासेन
भा०-मातृकापदास्तिकस्यापि मातृकापदं वा मातृकापदे वा मातृकापदानि वा सत् । अमातृकापदं वा अमातृकापदे वा अमातृकापदानि वाऽसत् ।
टी०-मातृकापदास्तिकस्यापीत्यादि । धर्मास्तिकायादीनामुद्देशमात्रं मातृकापदास्तिकलक्षणम्, एवं मन्यते व्यवहारः-न द्रव्यमात्रमभेदं सत् संज्ञास्वालक्षण्यादिशून्यं व्यवहर्तृणां लौकिकपरीक्षकाणां धियं धिनोति, व्यवहारार्थश्च वस्त्वभ्युपगमः, स च भेदेन प्रायः साध्यते, त्वयाऽपि च भेद एव प्रदर्शितो द्रव्यं वा द्रव्ये वा द्रव्याणि वेति, एकस्मिन्नर्थ एकवचनं द्वयोरर्थयोर्द्विवचनं बहुष्वर्थेषु च बहुवचनमित्येवं सतो भेदका सङ्ख्या, न च द्रव्यसतोÜदस्तद्रव्यमेव सत्सदेव द्रव्यम्, यच्चैकसङ्ख्यावच्छिन्नं सत् तन्न द्वित्वादिसङ्ख्याऽऽश्रयितुं शक्यम्, न ह्येको द्वौ, द्वौ वा एक इत्येवं लोकव्यवहारप्रवणेन भेदोऽभ्युपेयः, किं तद् द्रव्यं धर्माधर्माकाशपुद्गलजीवभेदं गतिस्थित्यवगाहशरीरादिपरस्परोग्रहणाधुपकारि संज्ञास्वलक्षणादिविविक्तं संव्यवहारप्रापणप्रत्यलं भवति ? निर्भेदं पुनर्वस्तु न काञ्चिद् व्यवहारमात्रामभिमुखीकरोति, भेदप्रधानतायां तु धर्मादीनामन्यतमैकविवक्षायां सत् मातृकापदम्, द्वित्वविवक्षायां सती मातृकापदे, त्रित्वादिविवक्षायां सन्ति मातृकापदानीति प्रतिविशिष्टव्यवहारप्रसिद्धिः, अतो धर्मादयः परस्परव्यावृत्तसत्त्वस्वभावार्पणयैव सन्ति, नान्यथा । धर्मास्तिकायस्वलक्षणं य(त् त) न्न जातुचिदधर्मास्तिकायलक्षणं भवति, अतो यदस्ति तन्मातृकापदं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org