________________
१४७
भावाद् व्येति व्येष्यतीति चानित्यम्, अनाद्यैः पर्यायैरादिश्यमानं सत्त्व-द्रव्यत्वसंज्ञित्व-प्रमेयत्व-चेतनत्व-मूर्तामूर्तत्व-भौतिकत्वेतरत्व-ग्राह्यत्वादिभिरविनाशधर्मकत्वान्नित्यम्, तद्धि सूक्ष्मोत्पादभङ्गसन्ततिसम्भवेऽपि सत्त्वादिभिराकारैर्नोत्पद्यते नापि विनश्यति । तत्र द्रव्यास्तिकं मातृकापदास्तिकं च द्रव्यनयः, उत्पन्नास्तिकं पर्यायास्तिकं च पर्यायनयः । अस्ति मतिरस्येत्यास्तिकम्, सतः प्रस्तुतत्वात्, तदभिसम्बन्धे नपुंसकलिङ्गता, द्रव्ये आस्तिकं द्रव्यास्तिकम्, मयूरव्यंसकादावकृतलक्षणतत्पुरुषप्रक्षेपात्, अथवाऽधिकरणशेषभावविवक्षायां द्रव्यस्यास्तिकं द्रव्यास्तिकम्, अथवा आस्तिकमस्तिमति, किं तत् ? 'नयरूपं प्रतिपादयितृ, कस्य प्रतिपादकम्? द्रव्यस्य, अतः प्रतिपाद्यप्रतिपादकभावलक्षणसम्बन्धविवक्षायां षष्ठीसमासश्च । एवं मातृकापदास्तिकादिष्वपि योज्यम् । द्रव्यमेवाभेदं भिद्यते न पर्यायः, द्रव्यं भवनलक्षणं मयूराण्डकरसवदुपारूढसर्वभेदबीजं देशकालक्रमव्यङ्ग्यभेदसमरसावस्थमेकरूपं भवनंभूतिः सत्त्वमाश्रितसत्तातिरिक्तं भेदप्रत्यवमर्शेनाभिन्नमपि भिन्नवदाभासते, तदेव चास्तीति मन्यते, तच्च द्रव्यास्तिकमसङ्कीर्णस्वभावं शुद्धप्रकृतिरूपमेकं प्रत्याख्याताशेषविशेषकदम्बकं द्रव्यात्मकं द्रव्यमानं सङ्ग्रहप्ररूपणाविषयमभिहितम्, अपरं नैगमव्यवहारप्ररूपणा विषयमशुद्धप्रकृति, यस्माद् द्रव्यपर्यायावुभाविच्छति नैगमः स्वतन्त्रः, सामान्यमर्थान्तरभूतमन्यदेवाश्रितं सदभिधानप्रत्ययहेतुस्तयोनिनिमित्तयोः सर्वथाऽनुपाख्ये प्रवृत्त्यभावात्, व्यावृत्तिबुद्धिहेतुर्भेदकरोऽन्य एव विशेष इति भेदाभ्युपगतेरशुद्धप्रकृतित्वम्, व्यवहारोऽप्यशुद्धप्रकृतिरेव, परस्परविभिन्नरूपैरथैः संव्यवहारः सिध्यतीत्यभिप्रायात्, नैगमस्य वा सङ्ग्रहव्यवहारानुप्रवेशाच्छुद्धाशुद्धप्रकृतित्वं द्रव्यास्तिकस्य, तत्र सङ्ग्रहाभिप्रायानुसारि द्रव्यास्तिकम् व्यवहारनयानुसारि मातृकापदास्तिकम्, शुद्धाशुद्धप्रकृतिद्वयसन्दर्शनार्थं द्विधोपादानम्, सर्ववस्तुसल्लक्षणत्वादसत्प्रतिषेधेन सर्वसङ्ग्रहादेशो द्रव्यास्तिकम्, नहि सता किञ्चिदनाविष्टमस्ति द्रव्येण वा, तच्च निर्भेदत्वाल्लोकयात्राप्रवृत्तिबहिर्मुखम्, अत एव व्यवहारप्रवृत्तिस्त्यागोपादानोपेक्षारूपेण वस्तुषु प्रायो भेदसमाश्रया, स च भेदो मातृकापदास्तिकनिबन्धनः, व्यवहारस्याशुद्धप्रकृतित्वाल्लोकव्यवहारप्रसाधनाय द्रव्यास्तिकं भिनत्ति व्यवहारनयः, किमन्यद्धर्माधर्माकाशपुद्गलजीवास्तिकायेभ्यस्तद् द्रव्यास्तिकं नाम ? ते चास्तिकायाः परस्परं भिन्नस्वभावास्तुल्येऽपि हि द्रव्यत्वे न धर्मास्तिकायो भवत्यधर्मास्तिकायः, पक्कापक्ववत्, तथेतरेऽपि विविक्ता एव लोकयात्रां वर्तयन्ति, सन्मानं शुद्धद्रव्यमानं वा विद्यमानमपि न जातुचिद् व्यवहारक्षमम्, अतः स्थूलकतिपयव्यवहारयोग्यविशेषप्रधानं मातृकापदास्तिकम्, एते च धर्मास्तिकायादयः समस्तसामान्यविशेषपर्यायाश्रयत्वान्मातृकापदशब्दवाच्याः, मातृका ह्यशेषवर्णपदवाक्यप्रकरणादिविकल्पानां योनिः, इत्थं धर्मादयोऽपि व्यवहारनिबन्धना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org