________________
१४२
पुनः क्षणमात्रावस्थायिनोरुत्तरकालमेकस्य बलवत्त्वाद् घातकत्वे सतीतरस्य दुर्बलत्वाद् वध्यत्वे स्याद् विरोधः, न चैवं सदसतोर्नित्यानित्ययोर्वा क्षणमात्रमप्येकत्र वृत्तिस्त्वयाऽभ्युपेयते, गुणविषये संयोगाभावान्नापि समवायवृत्तिर्विरोधाभावप्रसङ्गात्, तस्मान्न नित्यानित्यसदसदादीनामेकवस्त्वाश्रयतायां वध्यघातकभावलक्षणो विरोधः समस्ति, नाप्यसहावस्थानलक्षणो विरोधः, स हि शीतोष्णवत् फलवृन्तसंयोगविभागवदाम्रफलादिषु श्यामतापीततावद् वा, तथाहि शीतपर्यायोऽश्मादीनां प्राग् वा विद्यमानः पश्चादुपजायमानेनोष्णपर्यायेण सह नावतिष्ठते, तथोष्णः शीतेनोपजायमानेन सह विरुध्यते, न चैवं प्रागवस्थितं नित्यत्वमनित्यत्वेन पश्चात्कालभाविना विनाश्यते, तद्धि नित्यत्वमेव न स्यादध्रुवत्वात्, नापि नित्यत्वेनोत्पत्तिभाजा पूर्वावस्थितमनित्यत्वं विनाश्यते, तत् तु नित्यत्वमेव न स्यादुत्पद्यमानत्वात्, अपि च क्षणनश्वरेषु भावेषु न कदाचिदयं विरोधः समस्ति, नहिं तत्रानित्यत्वस्य पूर्वमवस्थानम्, तेन ह्यनित्यत्वेन नाशिते वस्तुनि निराधारस्य नित्यत्वस्याभाव एब, अवश्यंतयाऽसहावस्थानलक्षणविरोधवादिना तत्रान्यतरस्योत्पद्यमानता अन्यतरस्य च पूर्वावस्थितिरभ्युपेया, अन्यथाऽसहावस्थानलक्षणविरोधवाद्येव न स्यात्, येषामपि किञ्चित् कालं स्थित्वा घटो विनश्यति तैरपीदं वक्तव्यम्-यावदसौ न विनश्यति तावत् किं नित्यः उतानित्य इति ? नित्यश्चेद् व्योमादिवदनुच्छेदप्रसङ्गः, इतरत्र त्वभावप्रसङ्गः, अवश्यमेव सता नित्येनानित्येन वा भवितव्यमेकान्तवादिनाम्, अनेकान्तवादिनां तूभयस्वभावत्वाद् वस्तुनो न किञ्चिदघटमानकम्, एवमेव फलवृन्तयो: संयोगविनाशे विभाग उपजायते फलादिषु श्यामताऽपैति पीततोत्पद्यत इति विकल्प्य निरसनीयम्, एवमेते विकल्पाः पूर्वकेण विरोधलक्षणेन सङ्गता अपीह स्यात्कारोपलाञ्छनप्रक्रियायां न सम्भवन्ति । अ चैकत्रावस्थानं न दृश्यत इति किमेकस्मिन् धर्मिणि नास्ति, यद्येवं ततोऽ सिद्धता, दृष्ट एक एवाश्मा शीतश्चोष्णश्च । अथ यत्र देशे शीतो न तत्रैवोष्ण इति, एतदप्यसत्, नहि शिशिरस्पर्शमुदकं भिन्नदेशवर्त्यसंयुक्तमेवाग्नि विध्यापयति, संयोगश्चैकदेशवर्तित्वे जलानलपरमाणूनां सिद्ध्यति, अन्यथा च त्रैलोक्येऽप्यग्न्यभावप्रसङ्गः, सति च संयोगे क्षणमात्रावस्थानमेकत्र दृष्टमेव तदा कुतो विरोध: ? उत्तरकालमदर्शनाद् विरोध इति चेत्, अत एव कदाचिद् विरोधः कदाचिदविरोध इति स्याद्वादाश्रयणमपदोषम् ॥ अथैकस्मिन्नेवाग्निद्रव्ये उष्णतानुष्णते युगपन्न स्तः, इत्येतदप्यसारम् । यतः स्पर्शपर्यायेणाग्निरुष्णोऽभिधीयते रूपपर्यायेण त्वनुष्ण एव । अथोष्णस्य प्रतियोगी शीत एवानुष्ण इति गृह्यते, रिक्तं शक्यमेतदपि, अनुष्णा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org