________________
अथ “चत्तापावारंभं' इत्यादि सूत्रेण यदुक्तं शुद्धोपयोगाभावे मोहादिविनाशो न भवति, मोहादिविनाशाभावेन शुद्धात्मलाभो न भवति तदर्थमेवेदानीमुपायं समालोचयति-जो जाणदि अरहंतं यः कर्ता जानाति । कम् ? अर्हन्तम् । कैः कृत्वा? दव्वत्तगुणत्तपज्जयत्तेहिं- द्रव्यत्वगुणत्वपर्यायत्वैः, सो जाणदि अप्पाणं स पुरुषोऽर्हत्परिज्ञानात्पश्चादात्मानं जानाति, मोहो खलु जाइ तस्स लयं तत आत्मपरिज्ञानात्तस्य मोहो दर्शनमोहो लयं-विनाशं क्षयं यातीति । तद्यथा-केवलज्ञानादयो विशेषगुणा, अस्तित्वादयः सामान्यगुणाः, परमौदारिकशरीराकारेण यदात्मप्रदेशानामवस्थानं स व्यञ्जनपर्यायः, अगुरुलघुकगुणषड्वृद्धिहानिरूपेण प्रतिक्षणं प्रवर्तमाना अर्थपर्यायाः, एवं लक्षणगुणपर्यायाधारभूतममूर्तमसंख्यातप्रदेशं शुद्धचैतन्यान्वयरूपं द्रव्यं चेति, इत्थंभूतं द्रव्यगुणपर्यायस्वरूपं पूर्वमर्हदभिधाने परमात्मनि ज्ञात्वा पश्चान्निश्चयनयेन तदेवागमसारपदभूतयाऽध्यात्मभाषया निजशुद्धात्मभावनाभिमुखरूपेण सविकल्पस्वसंवेदज्ञानेन तथैवागमभाषयाधः-प्रवृत्तिकरणापूर्वकरणानिवृत्तकरणसंज्ञदर्शनमोहक्षपणसमर्थपरिणामविशेषबलेन पश्चादात्मनि योजयति । तदनन्तरमविकल्पस्वरूप प्राप्ते, यथा पर्यायस्थानीयमुक्ताफलानि गुणस्थानीयं धवलत्वं चाभेदनयेन हार एव, तथा पूर्वोक्तद्रव्यगुणपर्याया अभेदनयेनात्मैवेति भावयतो दर्शनमोहान्धकारः प्रलीयते । इति भावार्थः ॥८०॥ (प्रव०सा० गा०८०) 30/1 [127] मणेरिवाभिजातस्य क्षीणवृत्तेरसंशयम् ।।
तात्स्थ्यात्तदञ्जनत्वाच्च समापत्तिः प्रकीर्तिता ॥ १० ॥ मणेरिवेति । मणेरिव-स्फटिकादिरत्नस्येव अभिजातस्य-जात्यस्य क्षीणवृत्ते:-क्षीणमलस्य असंशयं-निश्चितं तात्स्थ्यात्-तत्रैकाग्रत्वात्, तदञ्जनत्वाच्च-तन्मयत्वात् । न्यग्भूते चित्ते विषयस्य भाव्यमानस्यैकत्वोत्कर्षात् । समापत्तिः प्रकीर्तिता । तदुक्तं-क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृ-ग्रहण-ग्राह्येषु तत्स्थ-तदञ्जनता समापत्तिः (यो०सू०१-४१) । यथा हि निर्मलस्फटिकमणेस्तद्रपाश्रयवशात् तद्रूपतापत्तिरेवं निर्मलचित्तसत्त्वस्य तत्तद्भावनीयवस्तूपरागात्तद्रूपतापत्तिः ।
यद्यपि ग्रहीतृ-ग्रहण-ग्राह्येत्युक्तं तथापि भूमिकाक्रमवशेन व्यत्ययो बोध्यः । यतः प्रथमं ग्राह्यनिष्ठः, समाधिः, ततो ग्रहणनिष्ठः, ततोऽस्मितोपरागेण ग्रहीतृनिष्ठः, केवलस्य पुरुषस्य ग्रहीतुर्भाव्यत्वाऽसम्भवादिति बोध्यम् ॥ १० ॥ (द्वा०द्वा० २०श्लो०१०) 30/3
[128] सूत्रम्-अर्पितानर्पितसिद्धेः ॥५-३१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org