________________
१३७
उज्जुभूयस्स धम्मो सुद्धस्स चिट्ठइ "त्ति । ( आचा० श्रुत ०१ अध्य०१ उ० ३ सू० १८ ) 28/1
[123] अस्य चानुयोगद्वारचतुष्टयचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे यज्ञीयमिति नामातो यज्ञनिक्षेपायाह निर्मुक्तिकृत् -
निक्खेवो जन्नमि अ चउक्कओ दुविहो य होइ दव्वंमि । आगमनोआगमओ, नोआगमओ अ सो तिविहो ॥४६०॥ जाणगसरीर भविए, तव्वइरित्ते अ माहणाईसुं । तव संजमेसु जयणा, भावे जन्नो मुणेयव्वो ॥४६१ ॥ जयघोसा अणगारा, विजयघोसस्स जन्नकिच्चमि । तत्तो समुट्ठियमिणं, अज्झयणं जन्नइज्जंति ॥४६२ ॥
निक्षेपो यज्ञे चतुष्कको नामादिः, द्विविधो भवति द्रव्ये - आगमनोआगमतः, तत्रागमतः प्राग्वत्, नोआगमतश्च स इति यज्ञस्त्रिविधः ज्ञशरीरभव्यशरीरे तद्व्यतिरिक्तश्च, 'माहणाइसु 'न्ति माहनादीनां प्रक्रमाद् यज्ञ आदिशब्दात् तथाविधनृपत्यादिपरिग्रहः, तैर्हि प्राणिहिंसोपलक्षित एवायं क्रियते, ततः स भावयज्ञफलाप्रसाधकत्वात्, द्रव्ययज्ञ उच्यते, भावयज्ञमाह - तप:संयमेषु प्रसिद्धेष्वेव 'यतना'तदनुष्ठानादरकरणरूपा भावे यज्ञ: 'मुणितव्य:' - प्रतिज्ञातव्यः, अर्हाऽर्थे चायं कृत्य: ततः स्वर्गादियज्ञफलप्रसाधकतयैष एव यज्ञः प्रतिज्ञातुमुचितो, न त्वन्यः, प्रत्युतानर्थहेतुत्वात्, जयघोषादनगाराद् विजयघोषस्य यज्ञकृत्ये - यज्ञक्रियायामागतात् जातमिति शेषः, ततश्च यज्ञेस्यैव प्राधान्यविवक्षया ततः इति यज्ञात् समुत्थितमिदमध्ययनं यज्ञीयमिति तस्मादुच्यते इति शेषः इति गाथात्रयार्थः ॥ एवं तावन्निक्षेप उक्तः । (उत्तरा० अध्य० २५ नियुक्ति गा० ४६० - ६१-६२ ) 28/1
तस्य
[124] अकसिणपवत्तयाणं, विरयाविरयाण एष खलु जुत्तो । संसारपयणुकरणो, दव्वथए कूवदिट्टंतो ॥१२२४॥
वृत्ति:- अकृत्स्नप्रवर्तकानां संयममधिकृत्य विरताविरतानां प्राणिनाम् एष खलु युक्तः स्वरूपेणैव संसारप्रतनुकरणः शुभानुबन्धात् 'द्रव्यस्तवः' तस्मिन् कूपदृष्टान्तोऽत्र प्रसिद्धकथानकगम्य इति गाथार्थः ॥ १२२४|| (पञ्चव०गा० १२२४ ) 28/4
[125] कति णं भंते ! भासज्जाया पण्णत्ता ? गोयमा ! चतारि भासज्जायां प० तं० सच्चमेगं भासज्जायं बितियं मोसं भासज्जातं तइयं सच्चामोसं भासज्जातं चउत्थं असच्चामोसं भासज्जातं, इच्चेइयाई भंते !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org