________________
१२७
[117] परतत्त्व दिदृक्षाया अनालम्बनयोगत्वे उपपत्तिमाहतत्राऽप्रतिष्ठितोऽयं यतः प्रवृत्तश्च तत्त्वतस्तत्र । सर्वोत्तमानुजः खलु तेनाऽनालम्बनो गीतः ॥१५/९)।
तत्र-परतत्त्वे अप्रतिष्ठितः-अलब्धप्रतिष्ठः अयं-पस्मात्मदिदृक्षाख्यो योगो यतः-यस्मात् प्रवृत्तश्च ध्यानरूपेण तत्त्वतः-वस्तुतः तत्र-परतत्त्वे, तदाऽऽभिमुख्याऽप्रच्यवात् । सर्वोत्तमस्य-योगनिरोधाख्यनिखिलातिशायियोगस्य अनुजः-प्रागनन्तरवर्ती खलु तेन कारणेन अनालम्बनः-अनालम्बनयोगो गीत:कथितः पुरा विद्वद्भिः ।।
स्यादेतत् परतत्त्वदिदृक्षायाः परतत्त्वदर्शनं यावत् . अनालम्बनत्वे अपरतत्त्वदिदृक्षायाः अप्यपरतत्त्वदर्शनं यावदनालम्बनत्वापत्तिः अपरतत्त्वस्य दृष्टत्वाभ्युपगमे च ध्यानानुपपत्तिरिति, मैवम, अपरतत्त्वे प्रतिमाद्यालम्बनद्वारा सामान्यतो दृष्टेऽपि विशेषदर्शनाय ध्यानोपपत्तेः परम्परयाऽऽलम्बनवत्त्वेन च सालम्बनत्वव्यपदेशात्परतत्त्वे तु केनाऽपि द्वारेण दर्शनाभावादनालम्बनत्वोपपत्तेः ॥१५/९॥ [षोड० प्र०षो०१५ श्लो०९] 27/6 [118] आलम्बनविधयैवानालम्बनस्वरूपमुपदर्शयन्नाह
आलंबणं पि एयं, रूवमरूवी य इत्थ परमु त्ति ।
तग्गुणपरिणइरूवो, सुहुमो अणालंबणो नाम ॥१९॥ 'आलंबणं पि' त्ति । आलम्बनमपि 'एतत्' प्राकरणिकबुद्धिसंनिहितम् 'अत्र'-योगविचारे 'रूपि'-समवसरणस्थजिनरूपतत्प्रतिमादिलक्षणम्, 'च' पुनः अरूपी-परमः-सिद्धात्मा इत्येवं द्विविधम् । तत्र तस्य अरूपिपरमात्मलक्षणस्यालम्बनस्य ये गुणा:-केवलज्ञानादयस्तेषां परिणतिः समापत्तिलक्षणा तया रूप्यत इति तद्गुणपरिणतिरूपः सूक्ष्मोऽतीन्द्रियविषयत्वादनालम्बनो नाम योगः, अरूप्यालम्बनस्येषदालम्बनत्वेन 'अलवणा यवागूः' इत्यत्रेवात्र नपदप्रवृत्तेरविरोधात् । "सुहुमो आलंबणो नाम''त्ति क्वचित्पाठस्तत्रापि सूक्ष्मालम्बनो नामैष योगस्ततोऽनालम्बन एवेति भाव उन्नेयः, उक्तं चात्राधिकारे चतुर्दशषोडशके ग्रन्थकृतैव-"सालम्बनो निरालम्बनश्च योगः परो द्विधा ज्ञेयः । जिनरूपध्यानं खल्वाधस्तत्तत्त्वगस्त्वपरः ॥१॥" सहालम्बनेन चक्षुरादिज्ञानविषयेण प्रतिमादिना वर्तत इति सालम्बनः । आलम्बनात्-विषयभावापत्तिरूपान्निष्क्रान्तो निरालम्बनः, यो हि छद्मस्थेन ध्यायते न च स्वरूपेण दृश्यते तद्विषयो निरालम्बन इति यावत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org