________________
१२४
माणस्यैव ग्रहणादुच्चारणांशे क्रियारूपत्वात् । तथा 'त्रयम्-' अर्थालम्बननिरालम्बनलक्षणं ज्ञानयोगः, 'तुः'-एवकारार्थ इति ज्ञानयोग एव, अर्थादीनां साक्षाद् ज्ञानरूपत्वात् ॥२॥ (यो०वि०गा० २) 27/2 [112] एष कर्मयोगो ज्ञानयोगो वा कस्य भवतीति स्वामिचिन्तायामाह
देसे सव्वे य तहा, नियमेणेसो चरित्तिणो होइ।
इयरस्स बीयमित्तं, इत्तु च्चिय केइ इच्छंति ॥३॥ 'देसे सव्वे य'त्ति । सप्तम्याः पञ्चम्यर्थत्वाद्देशतस्तथा सर्वतश्च चारित्रिण एव 'एषः'-प्रागुक्तः स्थानादिरूपो योगः । “नियमेन'-इतरव्यवच्छेदलक्षणेन निश्चयेन भवति, क्रियारूपस्य वाऽस्य चारित्रमोहनीयक्षयोपशमनान्तरीयकत्वात् अत एवाध्यात्मादियोगप्रवृत्तिरपि चारित्रप्राप्तिमारभ्यैव ग्रन्थकृता योगबिन्दौ प्ररूपिता, तथाहि- "देशादिभेदतश्चित्रमिदं चोक्तं महात्मभिः । अत्र पूर्वोदितो योगोऽध्यात्मादिः संप्रवर्तते ॥३५७।। इति । 'देशादिभेदतः' देशसर्वविशेषाद् 'इदं' चारित्रं 'अध्यात्मादिः' अध्यात्म १ भावना २ आध्यानं ३ समता ४ वृत्तिसंक्षयश्च ५ । तत्राध्यात्मम्- उचितप्रवृत्तेतभृतो मैत्र्यादिभावगर्भ शास्त्राज्जीवादितत्त्वचिन्तनम् १, भावना-अध्यात्मस्यैव प्रतिदिनं प्रवर्धमानश्चित्तवृत्तिनिरोधयुक्तोऽभ्यासः २ आध्यानंप्रशस्तैकार्थविषयं स्थिरप्रदीपसदृशमुत्पातादिविषयसूक्ष्मोपयोगयुतं चित्तम् ३ समता अविद्याकल्पितेष्टानिष्टत्वसंज्ञापरिहारेण शुभाशुभानां विषयाणां तुल्यताभावनम् ४, वृत्तिसंक्षयश्च-मनोद्वारा विकल्परूपाणां शरीरद्वारा परिस्पन्दरूपाणामन्यसंयोगात्मकवृत्तीनामपुनर्भावेन निरोधः ५। अथैतेषामध्यात्मादीनां स्थानादिषु कुत्र कस्यान्तर्भाव: इति चेद् ? उच्यते-अध्यात्मस्य चित्रभेदस्य देवसेवाजपतत्त्वचिन्तनादिरूपस्य यथाक्रमं स्थाने ऊर्णेऽर्थे च । भावनाया अपि भाव्यसमानविषयत्वात्तत्रैव । ध्यानस्यालम्बने । समतावृत्तिसंक्षययोश्च तदन्ययोग इति भावनीयम् । ततो देशतः सर्वतश्च चारित्रिण एव स्थानादियोगप्रवृत्तिः संभवतीति सिद्धम् ।
ननु यदि देशतः सर्वतश्च चारित्रिण एव स्थानादिर्योगः तदा देशविरत्यादिगुणस्थानहीनस्य व्यवहारेण श्रद्धाधर्मादौ प्रवर्तमानस्य स्थानादिक्रियायाः सर्वथा नैष्फल्यं स्यादित्याशङ क्याह-'इतरस्य'-देशसर्वचारित्रिव्यतिरिक्तस्य स्थानादिकं 'इत एव' देशसर्वचारित्रं विना योगसंभवाभावादेव 'बीजमात्रं'-योगबीजमात्रं 'केचिद्'-व्यवहारनयप्रधाना इच्छन्ति । "मोक्षकारणीभूतचारित्रतत्त्वसंवेदनान्तर्भूतत्वेन स्थानादिकं चारित्रिण एव योगः, अपुनर्बन्धकसम्यग्दृशोस्तु तद्योगबीजम्" इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org