SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ११५ ओदइए १ ओवसमिए २ खइए अ ३ ता खओवसमिए अ ४ । परिणामि ५ सनिवाए अ६ छव्यिहो भावलोगो उ ॥२००॥ (भा०) व्याख्या-उदयेन निवृत्त औदयिकः, कर्मण इति गम्यते, तथोपशमेन निवृत्त औपशमिकः, क्षयेण निर्वृत्तः क्षायिक एवं शेषेष्वपि वाच्यम्, ततश्च क्षायिकश्च तथा क्षायोपशमिकश्च पारिणामिकश्च सानिपातिकश्च, एवं षड्विधो भावलोकस्तु तत्र सान्निपातिक ओघतोऽनेकभेदोऽवसेयः, अविरुद्धस्तु पञ्चदशभेद इति, उक्तं च"ओदइअखओवसमे परिणामेक्केको गइचउक्केऽवि । खयजोगेणवि चउरो तदभावे उवसमेणंपि ॥१॥ उवसमसेढी एक्को केवलिणोऽवि य तहेव सिद्धस्स । अविरुद्धसंनिवाइयभेया एमेव पण्णरस ॥२॥"त्ति गाथार्थः ॥२०॥ तिव्वो रागो अदोसो अ, उन्ना जस्स जंतुणो। जाणाहि भावलोअं, अणंतजिणदेसिअं सम्मं ॥२०१॥ (भा०) व्याख्या-'तीव्र' उत्कटः रागश्च द्वेषश्च, तत्राभिष्वङ्गलक्षणो रागः, अप्रीतिलक्षणो द्वेष इति, एतावुदीर्णो 'यस्य जन्तोः' यस्य प्राणिन इत्यर्थः, तं प्राणिनं तेन भावेन लोक्यत्वाज्जानीहि भावलोकमनन्तजिनदेशितम्-एकवाक्यतयानन्तजिनकथितं 'सम्यग्' इति क्रियाविशेषणम्, अयं गाथार्थः ॥२०१॥ द्वारम्, साम्प्रतं पर्यायलोक उच्यते, तत्रौघत: पर्याया धर्मा उच्यन्ते, इह तु किल नैगमनयदर्शनं मूढनयदर्शनं वाऽधिकृत्य चतुर्विधं पर्यायलोकमाह दव्वगुण १ खित्तपज्जव २ भवाणुभावे अ ३ भावपरिणामे ४ । जाण चउव्विहमेअं, पज्जवलोगं समासेणं ॥२०२॥ (भा०) व्याख्या-द्रव्यस्य गुणा:-रूपादयः, तथा क्षेत्रस्य पर्यायाः-अगुरुलघवः भरतादिभेदा एव चान्ये, भवस्य च नारकादेरनुभावः-तीव्रतमदुःखादिः, यथोक्तम्"अच्छिणिमिलीयमेत्तं णत्थि सुहं दुक्खमेव अणुबंधं । णरए णेरइआणं अहोणिसिं पच्चमाणाणं ॥१॥ असुभा उव्वियणिज्जा सद्दरसा रूवगंधफासा य । णरए णेरइआणं दुक्कयकम्मोवलित्ताणं ॥२॥" इत्यादि, एवं शेषानुभावोऽपि वाच्यः, तथा भावस्य जीवाजीवसम्बन्धिनः परिणामस्तेन तेन अज्ञानाद् ज्ञानं नीलाल्लोहितमित्यादिप्रकारेण भवनमित्यर्थः, 'जानीहि' अवबुध्यस्व चतुर्विधमेनमोघतः पर्यायलोकं 'समासेन' संक्षेपेणेति गाथार्थः ॥२०२॥ तत्र यदुक्तं द्रव्यस्य गुणा इत्यादि तदुपदर्शनेन निगमयन्नाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy