________________
११२
समासः, दुष्प्रस्थितो ह्यात्मा समस्तदुःखहेतुरिति वैतरण्यादिरूपः, सुप्रस्थितश्च सकलसुखहेतुरिति कामधेन्वादिकल्पः । तथा च प्रव्रज्यावस्थायामेव सुप्रस्थितत्वेनात्मनोऽन्येषां च योगकरणसमर्थत्वान्नाथत्वमिति सूत्रद्वयगर्भार्थः । (उत्तरा० अ०२०, गा०३७ ) 21/5
[96] उवसामं उवणीआ, गुणमहया जिणचरित्तसरिसंपि । पडिवायंति कसाया, किं पुण सेसे सरागत् ॥ ११८ ॥ जइ उवसंतकसाओ, लहइ अणंतं पुणो वि पडिवायं । ण हु भे वीससियव्वं, थेवे य कसायसेसंमि ॥ ११९ ॥ अणथोवं वणथोवं, अग्गीथोवं कसायथोवं च । हु भेवीससियव्वं, थोवंपि हु तं बहुं होई ॥१२०॥
व्याख्या - उपशमः - शान्तावस्था तमुपशमम् अपि शब्दात् क्षयोपशममपि, उपनीताः गुणैर्महान् - गुणमहान्, तेन गुणमहता-उपशमकेन, किम् ? प्रतिपातयन्ति कषायाः संयमाद्भवे वा, कम् ? जिनचारित्रतुल्यमपि उपशमकम् पुनः शेषान् सरागस्थानिति । यथेह भस्मच्छन्नानलः पवनाद्यासादितसहकारिकारणान्तरः पुनः स्वरूपमुपदर्शयति, एवमसावप्युदितकषायानलो जघन्यतस्तद्भव एव मुक्ति लभते, उत्कृष्टतस्तु देशोनमर्धपुद्गलपरावर्तमपि संसारमनुबध्नातीति ॥ ११८ ॥ यतश्चैवं तीर्थकरोपदेशः अतः औपदेशिकं गाथाद्वयमाह नियुक्तिकारः - प्रथमगाथा प्रकटार्थत्वान्न वितन्यते । द्वितीयगाथाव्याख्या - ऋणस्य स्तोकं ऋणस्तोकं, तथा च स्वल्पादपि ऋणात् दासत्वं प्राप्ता वणिग्दुहितेति, उक्तं च भाष्यकारेण - दासत्तं देइ अणं अचिरा मरणं वणो विसप्पंतो । सव्वस्स दाहमग्गी दिति कसाया भवमणंतं ॥१॥ अपिचशब्दनिपातसाफल्यं पूर्वोक्तानुसारेण स्वबुद्ध्या वक्तव्यमिति गाथार्थ: ॥१२०॥ ( आव०नि० गा० ११८-१२०) 21/5
[97] द्वितीयनिर्युक्तिगाथाभावार्थमाह
दासत्तं देइ रिणं( अणं) अइरा मरणं वणो विसप्पंतो । सव्वस्स दाहमग्गी दिति कसाया भवमणंतं ॥१३११॥
स्तोकमपि ऋणं क्रमेण वर्धमानं दासत्वं ददाति, यथा- काचिद् वणिग्दुहिता गृहीतव्रतस्य निजभ्रातुरागतस्य प्रतिदिनं कर्षवृद्धया हट्टात् तैलस्य कर्षमानीय दत्तवती । साधुसेवाव्याक्षेपाच्च तया वणिजोऽसौ न दत्तः । वर्धमानश्च क्रमेण घटादिसंख्यां प्राप्तः । तया च कर्पासकर्तनमात्रेणैव जीवनादसौ दातुं न शकितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org