________________
११०
[93] अनुमानान्तरमपि तत्सिद्धये प्राह
किरियाफलभावाओ दाणाईणं फलं किसीए व्व । तं चिय दाणाइफलं मणप्पसायाई जइ बुद्धी ॥१६१५ ॥ किरियासामण्णाओ जं फलमस्सावि तं मयं कम्मं । तस्स परिणामरूवं सुह- दुक्खफलं जओ भुज्जो ॥१६१६ ॥
'दाणाईणं फलं ति' इह दानादिक्रियाणां फलमस्ति 'किरियाफलभावाओ त्ति' सचेतनारब्धक्रियाणां फलभावात् फलभावदर्शनादित्यर्थः, यथा कृषि - क्रियायाः । इह या चेतनारब्धक्रिया तस्याः फलं दृष्टम् यथा कृष्यादिक्रियायाः, चेतनारब्धाश्च दानादिक्रियाः, तस्मात् फलवत्यः, यच्च तासां फलं तत् कर्म । या तु निष्फला क्रिया सा सचेतनारब्धापि न भवति, यथा परमाण्वादिक्रिया, सचेतनारब्धाश्च दानादिक्रियाः, तस्मात् फलवत्यः । स्यादेतत्, अनैकान्तिकोऽयं हेतु:, चेतनारब्धानामपि कासांचित् कृष्यादिक्रियाणां निष्फलत्वदर्शनात् । तदयुक्तम्, फलवत्त्वाभिप्रायेणैव तदारम्भात् । यच्च क्वचिद् निष्फलत्वमपि दृश्यते तत्सम्यग् - ज्ञानाद्यभावेन सामग्रीवैकल्याद् द्रष्टव्यम्, मनः शुद्धयादिसामग्रीविकलतया दानादिक्रिया अपि निष्फला इष्यन्त एवेत्यदोषः ।
यदि चात्र परस्यैवंभूता बुद्धि: स्यात् । कथम्भूता ? इत्याह-'तं चियेत्यादि’ तदेव दानादिक्रियाणां फलं यदस्मादृशामपि प्रत्यक्षं मनः प्रसादादि । इदमुक्तं भवति-कृष्यादिक्रिया दृष्टधान्याद्यवाप्तिफला दृष्टाः, अतो दानादिक्रियाणामपि दृष्टमेव मनः प्रसादादिकं फलं भविष्यति, किमदृष्टकर्मलक्षणफलसाधनेन ? । तत इष्टविरुद्धसाधनाद् विरुद्धोऽयं हेतुः । तर्ह्यत्र वयं ब्रूमः किरिया सामण्णाओ इत्यादि अस्यापि मनःप्रसादस्य यत् फलं तद् मम कर्म संमतम् । ननु मनः प्रसादस्यापि कथं फलमभिधीयते ? इत्याह किरियासामण्णाओ त्ति इदमुक्तं भवति-मनःप्रसादोऽपि क्रियारूप एव ततश्च यथा दानकृष्यादिकाः क्रियाः फलवत्यः, तथा क्रियासाम्याद् मनःप्रसादस्यापि फलेन भवितव्यमेव, यच्च तस्य फलं तत् कर्मैव, इति न कश्चिद् व्यभिचारः ।
यतः कर्मणः सकाशात्, किम् ? इत्याह- 'सुह- दुक्खफलं जओ त्ति सुखदुःखरूपं फलं सुख-दुःखफलं यतो यस्मात् कर्मणः सकाशाज्जायते । कथम् ? भूयः पुनः पुनरपि । कथम्भूतं यत् सुख-दुःखफलम् ? इत्याह- तस्यैव कर्मणस्तज्जनकत्वेन यत् परिणमनं परिणामस्तद्रूपमिति । एतदुक्तं भवति यतः कर्मणः सकाशात् प्रतिक्षणं तत्परिणतिरूपं सुख-दुःखफलं प्राणिनां समुपजायते, तत् कर्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org