________________
अत्रोच्यते
भा०-नैगमादयस्त्रयः सर्वाण्यष्टौ श्रयन्ते, ऋजुसूत्रनयो मतिज्ञानमत्यज्ञानवर्जानि षट् ॥
टी०-नैगमादिनयास्त्रयः-नैगमसंग्रहव्यवहाराः सर्वाणि निरवशेषाणि, कियन्तीति चेदुच्यते-अष्टौ, मतिज्ञानम्, मत्यज्ञानम्, श्रुतज्ञानम्, श्रुताज्ञानम्, अवधिज्ञानम्, विभङ्गज्ञानम्, मनःपर्यायज्ञानम्, केवलज्ञानमष्टमम् । एतान्यष्टावपि यतोऽर्थं परिच्छिन्दन्ति, अतोऽभ्युपगच्छन्त्यष्टावपि । ऋजुसूत्रः पुनः षडेषां मध्ये श्रयते, मतिज्ञानमत्यज्ञानवर्जानि षट्, मतिं मत्यज्ञानं च नाभ्युपैति ॥
भा०-अत्राह-(अथ) कस्मात् मतिं सविपर्ययां न श्रयत इति ? अत्रोच्यतेश्रुतस्य सविपर्ययस्योपग्रहत्वात्, शब्दनयस्तु द्वे एव श्रुतज्ञानकेवलज्ञाने श्रयते ॥
टी०-अत्राह-अथ कस्मात् मतिं सविपर्ययामिति मत्यज्ञानसहितामित्यर्थः न श्रयते नेच्छतीति ? । अत्रोच्यते-यस्मान्मतिमत्यज्ञाने श्रुतज्ञानस्य सविपर्ययस्येति श्रुताज्ञानसहितस्य उपग्रहं कुरुतः । कथमिति चेदुच्यते-यदेतदिन्द्रियजं चक्षुरादिभ्य उपजातं तद् हि अवग्रहणमात्रेण प्रवर्तमानं न वस्तुनो निश्चयं कर्तुमलम्, यदा श्रुतज्ञानेनासावालोचितोऽर्थो भवति तदा यथावनिश्चीयते इति, तस्मात् तदेवाभ्युपगन्तव्यं श्रुतज्ञानम्, कि मतिज्ञानेन ? इत्येवं श्रुतस्योपग्रहकरत्वात् न मतिज्ञानं सविपर्ययमाश्रीयते । शब्दनयस्तु भावार्थावलम्बी द्वे एव नान्यत् ताभ्यामित्युक्तम्, के ते? उच्यतेश्रुतज्ञानकेवलज्ञाने । अत्र शब्दमते परोऽसूयया ब्रूते
भा०-अत्राह-अथ कस्मान्नेतराणि श्रयत इति ? अत्रोच्यते-मत्यवधिमनःपर्यायाणां श्रुतस्यैवोपग्राहकत्वात्, चेतनाज्ञस्वाभाव्याच्च सर्वजीवानां नास्य कश्चिन्मिथ्यादृष्टिरज्ञो वा जीवो विद्यते । तस्मादपि विपर्ययान् न श्रयत इति । अतश्च प्रत्यक्षानुमानोपमानाप्तवचनानामपि प्रामाण्यमभ्यनुज्ञायत इति ॥ ___टी०-अथ कस्मान्नेतराणि मत्यादीनि श्रयते ? अत्रोच्यते-मत्यवधिमनःपर्यायाणां श्रुतस्यैवागमानुरक्तस्य उपग्राहकत्वाद्-उपकारकत्वात्, यतो मत्याद्यालोचितोऽर्थः न मत्यादिभिः शक्यः प्रतिपादयितुं मूकत्वात् मत्यादिज्ञानानाम्, अतस्तैरालोचितोऽप्यर्थः पुनरपि श्रुतज्ञानेनैवान्यस्मै स्वपरप्रत्यायकेन प्रतिपाद्यते, तस्मात् तदेवालम्बितुं युक्तम्, नेतराणि । केवलज्ञानं तु यद्यपि मूकं तथाप्यशेषार्थपरिच्छेदात् प्रधानमितिकृत्वाऽवलम्ब्यत एव, तथा विपर्ययं नाभ्युपैत्यस्मात् चेतनाज्ञस्वाभाव्याच्चेत्यादि, चेतना-जीवत्वं परिच्छेदकत्वसामान्यं गृह्यते, ज्ञ इत्यनेन तु विशेषपरिच्छेदिता ग्राह्या,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org