________________
८
जीव इति मन्तव्यः, एतत् स्याद् इन्द्रियादयः प्राणाः सिद्धेऽपि सन्ति, तन्न, सिद्धे हि सर्वकर्मापगमान्न सन्तीन्द्रियादयः प्राणा इत्येतदाह-तच्च जीवनमित्यादि । तदिति शब्दार्थतया जीव इत्यस्य जीवनं-प्राणधारणं सिद्धे-मोक्षप्रा नास्ति, तस्माद् भवस्थ एव संसार्येव जीवः, न सिद्ध इति । तथा नोजीव इत्युच्चरिते नोशब्दः सर्वप्रतिषेधक एव, देशस्याभावात, देश्येव देशो न वस्त्वन्तरम्, न च देशिनो देशो भिन्न इत्यभिधातुं युक्तम्, यदि हि भिन्नः स्यात् नासौ तस्य, भिन्नत्वाद् वस्त्वन्तरवत्, अथाभिन्नः देश्येव तॉस्ति न कश्चिद् देशो नामेत्यतः सर्वप्रतिषेधको नोशब्दोऽतः नोजीव इत्युक्ते जीवादन्यद् वस्तु सम्पूर्णं परमाणुप्रभृति प्रतीयते, तदाह-नोजीव इति अजीवद्रव्यमेव सिद्धो वा, प्राणधारणस्याभावात्, सोऽपि निर्जीव एवेति, अतः सिद्धो वा गम्यते । अजीव इति तूच्चरिते अजीवद्रव्यमेव परमाण्वादिकम्, सर्वप्रतिषेधकत्वादकारस्य प्रतीयते । नोअजीव इत्युक्ते 'प्रतिषेधौ द्वौ प्रकृतं गमयतः' इति भवस्थ:-संसार्येव जीवो गम्यते ॥ अथ कस्मानोजीव इत्यस्मिन् विकल्पे नोअजीव इत्यस्मिन् वा देशप्रदेशौ न गम्यते ? उच्यते-देशप्रदेशयोरनभ्युपगमादनेन नयेनेति, एतदाह
भा०-समग्रार्थग्राहित्वाच्चास्य नयस्य नानेन देशप्रदेशौ गृह्यते । एवं जीवौ जीवा इति द्वित्वबहत्वाकारितेष्वपि, सर्वसङग्रहणे तु जीवो, नोजीवः । अजीवो नोअजीवो जीवौ नोजीवा अजीवौ नोअजीवौ इत्येकत्व-द्वित्वाकारितेषु शून्यम् । कस्मात् ? ॥
टी०-समग्रार्थेत्यादि । समग्रः-सम्पूर्णः अर्थो-वस्तु सम्पूर्ण वस्तु समग्रार्थः तं ग्रहीतुं शीलमस्य समग्रार्थग्राही, सम्पूर्णमेव हि वस्तु गह्वातीत्ययं नयः, न देशं प्रदेशं वा, समग्रार्थग्राहिणो भावस्तथावर्तिता समग्रार्थग्राहित्वम्, अतो नानेनैवम्भूतनयेन देशप्रदेशौ स्थूलसूक्ष्मावयवात्मकौ गृह्यते । एवं तावच्चत्वारो विकल्या एकवचनेन दर्शिताः, यथा चैकवचनेन दर्शिता: एवं द्विवचनेन चत्वारो विकल्पा नेयाः, जीवौ १ नोजीवौ २ अजीवौ ३ नोअजीवौ ४, तथा च बहुवचनेनापि चत्वार एव, जीवाः १ नोजीवाः २ अजीवाः ३ नोअजीवा ४ नेयाः, एकवचनप्रतिपत्त्येव, केवलं तु द्विवचन बहुवचनं का विशेष इत्येतदाह-एवं जीवा जीवा इति । इतिशब्द आद्यार्थः, द्वित्वबहुत्वाकारितेषु द्विवचन बहुवचनाभ्यामुच्चारितेषु एवमेवाभ्युपगमो नैगमादीनाम् ।। अथैतांश्चतुरो विकल्पान् सङ्ग्रहनयः कथमभ्युपैतीति ? उच्यते सर्वसङ्ग्रहेणेत्यादि । सर्वसङ्ग्रहेण सामान्यवस्तुग्राहिणा एकवचनद्विवचनान्ता विकल्पा नाभ्युपगम्यन्ते, तांश्च विकल्पान् दर्शयति-जीवो नोनीव इत्यादिना । एकद्विवचनान्तेषूच्चरितेषु शून्यं भवतीति, नास्यैवं काचित् प्रतिपत्तिरस्तीत्यर्थः । कस्मानास्तीति चेत् ? उच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org