________________
८७
वर्तमानार्थाश्रयमित्यर्थः । समासत इति संक्षेपतः, यतो वर्तमानमात्मीयं नामादिकमित्यादिविशेषणोपेतम्, सङ्गच्छत्ययम् । उत्तरार्धेन शब्दस्वरूपमाह-विद्याद् यथार्थशब्दमिति । अनेन तु एवम्भूत इव प्रकाशितो लक्ष्यते, सर्वविशुद्धत्वात् तस्येति, यतः स एवमभ्युपैति यदाऽर्थश्चेष्टाप्रवृत्तस्तदा तत्र घट इत्यभिधानं प्रवर्त्यम्, नान्यदिति । साम्प्रतसमभिरूढौ कस्मानानेडिताविति चेत् ? उच्यते-तावपि स्मारितावेव, यत आह-विशेषितपदं तु शब्दनयमिति, विशेषितपदमिति विशेषितज्ञानम्, यतः साम्प्रतसमभिरूढयोरन्यादृशं ज्ञानम्, नामादिषु प्रसिद्धपूर्वाच्छब्दादर्थे प्रतीतिः साम्प्रतः शब्दान्तरवाच्यश्चार्थः शब्दान्तरस्य नाभिधेयीभवतीत्येवं समभिरूढविज्ञानमिति, इति:नयानुस्मरणपरिनिष्ठासूचकः ॥
भा०-अत्राह-अथ जीवो नोजीवः अजीवः नोअजीवः इत्याकारिते केन नयेन कोऽर्थः प्रतीयते ? इति ।
टी०-अत्राह परः-घटाद्यजीवपदार्थोद्देशेन नैगमादयो नया विभाविताः, सम्प्रति जीवपदार्थे विभावयन्नाह-अथ जीवो नोजीव इत्यादि । अथवा घटोदाहरणे विधिरेव केवलः प्रदर्शितः, अधुना विधिप्रतिषेधौ जीवे निरूपयति-अथेति प्रस्तुतानन्तर्यं द्योतयति, शुद्धपदे केवले आकारिते-उद्दिष्टे उच्चरिते वा जीव इति, नोजीव: अजीव इति देशसर्वप्रतिषेधयुक्तयोर्वा जीवशब्दयोरुच्चरितयोः, नोअजीव इति प्रतिषेधद्वयसमन्विते-जीवशब्दे उच्चरिते, केन नैगमादिना कोऽर्थः प्रतीयते ? सूरिराह. भा०-अत्रोच्यते-जीव इत्याकारिते नैगमदेशसङ्ग्रहव्यवहारर्जुसूत्रसाम्प्रतसमभिरूद्वैः पञ्चस्वपि गतिष्वन्यतमो जीव इति प्रतीयते । कस्मात् ? एते हि नया जीवं प्रत्यौपशमिकादियुक्तभावग्राहिणः । नोजीव इत्यजीवद्रव्यम्, जीवस्य वा देशप्रदेशौ । अजीव इत्यजीवद्रव्यमेव । नोअजीव इति जीव एव, तस्य वा देशप्रदेशाविति ॥
टी-शुद्धपदे जीव इत्याकारिते नैगमं समग्रग्राहिणं विहाय एवम्भूतं च शेषैर्देशनैगमादिभिः सर्वासु गतिषु वर्तमानोऽभ्युपगम्यते, तदाह-नैगमदेशेत्यादि । नैगमेन देशग्राहिणा, तथा व्यवहारेण-विशेषग्राहिणा, ऋजुसूत्रेण-वर्तमानवस्तुग्राहिणा, साम्प्रतेनवर्तमानभावग्राहिणा, समभिरूढेन च-प्रतिशब्दं भिन्नार्थग्राहिणा, पञ्चस्वपीति नरकतिर्यङ्मनुष्यदेवसिद्धिगतिषु, अन्यतम इति नरकादिगतिवर्ती जीवः प्राणी प्रतीयते, नाभावो नापि च भावान्तरम् । कस्मादिति चोदयति परः-किमत्रोपपत्तिरस्त्युत स्वेच्छया नैगमादयोऽभ्युपगच्छन्त्येवमिति ? सूरिराह-अस्त्युपपत्तिः, तां च कथयति-एते हि नया इत्यादिना । एते नैगमादयो नया यस्मात् जीवं प्रति-जीवमङ्गीकृत्य, कीदृशं जीवमिच्छन्ति?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org