________________
मत्यादीनाम्, यतो मतिज्ञानी मनुष्यादेर्जीवस्य कॉश्चिदेव पर्यायान् परिच्छिनत्ति ततो बहुतरांश्च श्रुतज्ञानी जानीते, यतोऽभिहितं-"संखातीतेऽवि भवे" (आव० नि०) इत्यादि । श्रुतज्ञानिनोऽपि सकाशाद् बहुतरानवधिज्ञानी पर्यवस्यति, विशुद्धिप्रकर्षात्, ततो मनःपर्यायज्ञानी, ततश्च सर्वात्मना केवलीति। न चैवमनेकधा परिच्छेदप्रवृत्ता मत्यादिका ज्ञानशक्तयो विप्रतिपत्तिव्यपदेशमश्नुवते, तद्वन्नयवादा इति किं नाभ्युपेयते ? ॥
उपपत्त्यन्तरमाह
भा०-यथा वा प्रत्यक्षानुमानोपमानाप्तवचनैः प्रमाणैरेकोऽर्थः प्रमीयते, स्वविषयनियमात्, न च ता विप्रतिपत्तयो भवन्ति, तद्वन्नयवादा इति ॥
टी०-यथा वेत्यादिना । यथा वा गिरिगुहावस्थितोऽग्निरेकोऽनेकेन प्रत्यक्षादिना परिच्छिद्यते प्रमाणेन, सन्निकृष्टवर्तिना प्रत्यक्षेण, विप्रकृष्टवर्तिना लिङ्गज्ञानेन, अपरेणोपमया कनकपुञ्जपिञ्जरप्रकाशोऽग्निरिति, अन्यः आप्तोपदेशादध्यवस्यत्यत्र वनगहनेऽग्निरिति, अत एवं प्रत्यक्षादिभिः प्रमाणैरेकोऽर्थः प्रमीयते, कुतः ? स्वविषयनियमात्, स्व:आत्मीयो विषयो-ज्ञेयः स्वश्चासौ विषयश्च स्वविषयः तस्मिन्नियमात्-नियतत्वात्, यतः प्रत्यक्षादीनि स्वविषयमेव परिच्छिन्दन्ति, न च ता:-प्रत्यक्षादिका ज्ञानशक्तयः विरुद्धाःअयथात्मिकाः प्रतिपत्तय इति च युज्यतेऽभिधातुम्, तद्वन्नयैरपि स्वविषयनियमानास्ति विप्रतिपत्तिप्रसङ्ग इति ॥
सम्प्रति प्रकान्तनयलक्षणमुदाहरणं चादर्शितं संक्षिप्तरुचीनामनुग्रहार्थमार्याभिर्वतुकाम एवं प्रक्रमते
भा०-आह चनैगमशब्दार्थानामेकानेकार्थनयगमापेक्षः । देशसमग्रग्राही, व्यवहारी नैगमो ज्ञेयः ॥१॥ - आर्या
टी०-आह चेत्यादि । आह चेत्यात्मानमेव पर्यायान्तरवर्तिनम्, निर्दिशति, निगमो जनपदस्तत्र भवाः नैगमा:-शब्दास्तेषाम् अर्था:-अभिधेयाः अतस्तेषां नैगमशब्दार्थानामेको विशेषः अनेकं-सामान्यम् अनेकव्यक्त्याश्रितत्वात् तावेव चार्थों एकानेकार्थों तयोरेकानेकार्थयोर्नयः-प्रकटनं प्रकाशनम् एकानेकार्थनयः स एव गमः-प्रकारः एकानेकार्थनयगमस्तमपेक्षते-अभ्युपैति यः स एकानेकार्थनयगमापेक्षः, पूर्ववाचोयुक्त्या पुनरमुमेवार्थमनुस्मरयन्नाह-देशेत्यादि । देशो-विशेषः समग्रं-सामान्यं तयोर्लाही-आश्रयिता, व्यवहारोऽस्य सामान्यविशेषाभ्यां परस्परविमुखाभ्याम् अस्तीति व्यवहारी, नैगमो ज्ञातव्यः ॥१॥
२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org