________________
टी०-य एते नैगमादयो वत्स्वंशपरिच्छेदव्यापृता नयाः । किमेते तन्त्रान्तरीया इत्यादि, तन्यन्ते-विस्तार्यन्तेऽस्मिन्ननेन वा जीवादयः पदार्थाः तन्त्रं-जैनप्रवचनम्, तस्मादन्यत् काणभुजादिशास्त्रं तन्त्रान्तरं तस्मिन् भवाः कुशला वा तन्त्रान्तरीयाः। गहादित्वाच्छः । स्वशास्त्रसिद्धानर्थानवश्यं वदन्तीति वादिनः, तत् किं वैशेषिकादयो वादिनो नया भण्यन्ते ? आहोस्वित् अथवेत्यस्य पक्षान्तरसूचकस्य निपातस्यार्थे प्रयुक्तः । स्वतन्त्रा एवेति । स्वम्-आत्मीयं तन्त्र-शास्त्रं येषां ते स्वतन्त्राः, स्वप्रधानाः जिनवचनमेव स्वबुद्ध्या विभजन्त एवमाहुः । चोदकपक्षग्राहिण इति । चोदको दुरुक्तानुक्तादिसूचकस्तस्य पक्षो-विषयः तं चोदकपक्षं ग्रहीतुं शीलमेषामिति चोदकपक्षग्राहिणः मतिभेदो बुद्धिभेदस्तेन विप्रधाविताः, अयथार्थनिरूपका इतियावत्। एवं चोदयतोऽयमभिप्रायः यद्ययं तन्त्रान्तरीयत्वमेषां दर्शयिष्यति नास्य वक्ष्यमाणो विप्रतिपत्तिदोष आपत्स्यते, अथ स्वतन्त्रा एवेति निश्चेष्यति तथा सति नैव स्वेच्छास्वतन्त्राणामभ्यनुज्ञातो वत्स्वंशोऽभ्युपेयो वस्तुभागश्च प्रोज्झ्यः, यस्मादेकस्यापि पदस्यारोचनान्मिथ्यादर्शनमिति । एवंविधदोषोपचिक्षिप्सया चोदयति ॥ अथ पक्षान्तरमाश्रयिष्यति तत्राप्यस्य सुखेन विप्रतिपत्तिदोषं चोदयिष्यामीति मत्वा प्रश्नयति, सूरिस्तूभयमप्येतत् परित्यजन् पक्षान्तरमाश्रयते अत्रोच्यते इति ॥ नैते तन्त्रान्तरीयाः, नापि स्वतन्त्राः, किं तर्हि ? तदाह-ज्ञेयस्येत्यादि । विज्ञानगम्यस्य जीवादेः स्वसंवेद्यस्य वाच्यस्यार्थस्य-घटपटादेः अध्यवसायान्तराणि विज्ञानभेदाः, आधिक्येनावसीयन्तेपरिच्छिद्यन्ते ततो येन सोऽध्यवसाय: प्रत्ययो विज्ञानम् अन्तराणीति भेदाख्यानम्, एतानीति नैगमादीनि पञ्च, एतत् कथितं भवति-वस्त्वेवानेकधर्मात्मकमनेकाकृतिना ज्ञानेन निरूप्यत इत्यतः स्वशास्त्रनिरूपणमेवेदम्, एतच्च दर्शयति
- भा०-तद्यथा-घट इत्युक्ते योऽसौ चेष्टाभिनिवृत्त ऊर्ध्वकुण्डलौष्ठायतवृत्तग्रीवोऽधस्तात् परिमण्डलो जलादीनामाहरणधारणसमर्थ उत्तरगुणनिर्वर्तनानिवृत्तो द्रव्यविशेषस्तस्मिन्नेकस्मिन् विशेषवति तज्जातीयेषु वा सर्वेष्वविशेषात् परिज्ञानं नैगमनयः ॥
टी०-तद्यथेत्यादिना । यथा ह्येते एकवस्तुविषया विज्ञानविशेषास्तथोदाहरणेन भावयति-घट इत्युक्ते नैगमाध्यवसाय एवं मन्यते-योऽसाविति लोकसिद्धः, चेष्टाभिनिवृत्त इति धात्वर्थानुगतिमाविष्करोति, कुम्भकारचेष्टाभिनिवृत्तोऽर्थो निष्पन्नः। किमाकार इति चेद् ? अत आह-ऊर्ध्वमित्यादि । ऊर्ध्वमुपरि कुण्डलौ वृत्तावोछै यस्य आयता-दीर्घा वृत्ता-समपरिधिः ग्रीवा यस्य ऊर्ध्वकुण्डलौष्ठवासावायतवृत्तग्रीवश्चेति समानाधिकरणः, उपरि तावदेवमाकारः । अथ अधस्तात् किमाकार इत्यत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org