________________
७८
सम्बन्धसङ्केतनाद् योग्यतालक्षणसम्बन्धावगतेर्वा, शब्दादिति, अभिधानात् नाम्न इतियावत्, अर्थे-अभिधेये यः प्रत्ययो-विज्ञानं स साम्प्रतो नयः । एतदुक्तं भवति-नामादिषु प्रतिविशिष्टवर्तमानपर्यायापन्नेष्वेव प्रसिद्धो वाचकतया यः शब्दस्तस्माच्छब्दात् भावाभिधायिनः तद्वाच्येऽर्थे भावरूपे प्रवृत्तोऽध्यवसायः साम्प्रताख्यामासादयति । यतो भाव एव शब्दाभिधेयो भवति, तेनाशेषाभिलषितकार्यकरणादिति ॥
अधुना समभिरूढलक्षणं दर्शयन्नाहभा०-सत्स्वर्थेष्वसंक्रमः समभिरूढः ॥
टी०-सत्स्वर्थेषु इत्यादि । सत्सु-विद्यमानेषु वर्तमानपर्यायापन्नेष्वित्यर्थः, अर्थेषु घटादिषु असङ्क्रम इत्यन्यत्रागमनं शब्दस्य यत् सोऽसंक्रमः । यथा घट इत्यस्य शब्दस्य विद्यमानं घटं चेष्टात्मकं विरहय्य नान्यत्र कुटाद्यर्थे घटाभिधानसामर्थ्यमस्ति, अनभिधेयत्वात्, यदि चास्य घटशब्दस्य कुटादिरर्थोऽभिधेयो भवेदेवं सति यथोक्ताः सर्वसङ्करत्वादयो दोषा उपजायेरन् नित्यतो न शब्दान्तराभिधेयोऽर्थोऽन्यस्य शब्दस्याभिधेयो भवति, एवमसंक्रमगवेषणपरोऽध्यवसायः समभिरूढः ॥
एवम्भूतनयलक्षणोनिनीषया आहभा०-व्यञ्जनार्थयोरेवम्भूत इति ॥
टी०-व्यञ्जनेत्यादि । व्यञ्जनं-शब्दस्तस्यार्थ:-अभिधेयो वाच्यम् तयोर्व्यञ्जनार्थयोरेवं संघटनं करोति घट इति यदिदमभिधानं तच्चेष्टाप्रवृत्तस्यैव जलधारणाहरणसमर्थस्य वाचकम्, चेष्टां च जलाद्यानयनरूपां कुर्वाणो घटो मतः, न पुनः क्रियातो निवृत्तः, इत्थं यथार्थतां प्रतिपद्यमानोऽध्यवसाय एवम्भूतोऽभिधीयते इति ।।
भा०-अत्राह-उद्दिष्टा भवता नैगमादयो नयाः । तत्र नया इति कः पदार्थ इति ? अत्रोच्यते-नयाः प्रापकाः कारकाः साधका निर्वर्तका निर्भासका उपलम्भका व्यञ्जका इत्यनर्थान्तरम् ॥
टी०-अत्रावकाशे चोदकः प्रश्नयति-उद्दिष्टा:-अभिहिताः लक्षणतस्त्वयानैगमादयः पञ्च । तत्र नैगमादिसूत्रे, नया इति यदभिधानं तस्यानेककारकसन्निधाने सति कः प्रत्ययार्थो ग्राह्य इति संशयानः पृच्छति-तनया इति कः पदार्थः ? तदित्यनेन बहुवचनान्तमभिधानं नया इत्येतन्निदिशति, नया इति तु इतिशब्दः नया इत्यस्य पदार्थविपर्यासकृत्, नया इत्यस्य शब्दस्य कः पदार्थः । ननु च कोऽर्थ इयता सिद्धः? तत्र पदार्थ इति पदग्रहणमतिरिच्यते ? उच्यते-शब्दस्य हि सिद्धोऽर्थो वाच्यो गम्यश्च,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org