________________
७५
भा०-आद्य इति सूत्रक्रमप्रामाण्यानैगममाह । स द्विभेदो-देशपरिक्षेपी सर्वपरिक्षेपी चेति। शब्दस्त्रिभेदः-साम्प्रतः, समभिरूढः, एवम्भूत इति ॥
__टी०-आद्य इति सूत्रक्रमेत्यादि । आदौ भव आद्यः इत्यनेन सूत्रकारः कमाह? उच्यते-नैगमम्, कुत इति चेत् ? सूत्रक्रमप्रामाण्यात् अर्थसूचनात् सूत्रं नैगमादि क्रमःपरिपाटी तस्य प्रामाण्यमेवमाश्रयणं तस्मान्नैगमनयं ब्रवीति, स आद्यो नैगमो द्विभेदो द्वौ भेदावस्येति द्विभेदः, तौ च भेदावाचष्टे-देशपरिक्षेपी सर्वपरिक्षेपी च । देशोविशेषः परमाण्वादिगतस्तं परिक्षेप्तुं शीलमस्येति देशपरिक्षेपी, विशेषग्राहीत्यर्थः । सर्वपरिक्षेपी सर्वं सामान्यम् एकं नित्यं निरवयवादिरूपं तत् परिक्षेप्तुं शीलमस्य स सर्वपरिक्षेपी, सामान्यग्राहीतियावत् । सामान्यविशेषरूपस्तु नोक्तः, अनुवृत्तिलक्षणश्चेत् सामान्यम्, व्यावृत्तिलक्षणश्चेत् विशेषः, ततोऽन्यस्याभावात् । अथवा आद्यन्तयोर्ग्रहणात् तन्मध्यगतस्यापि ग्रहणम् । शब्दस्त्रिभेद इति शब्दनयस्त्रिभेदः त्र्यंश इति, तानाह-साम्प्रत इत्यादिना, साम्प्रतं-वर्तमानं भावाख्यमेव वस्त्वाश्रयति यतोऽतः साम्प्रतः, सम्प्रतिकाले यद् वस्तु भवत् तत् साम्प्रतं तद्वस्त्वाश्रयन् साम्प्रतोऽभिधीयते ।। ननु च 'कालागु(?)ज्' (पा० ४।३।११) इति साम्प्रतिक इति भवितव्यम, नैष दोषः, वर्तमानक्षणवर्तिवस्तुविषयोऽध्यवसायस्तद्भवः शब्दः साम्प्रतः, स्वार्थिको वा प्रज्ञादित्वात् । एष च मौलशब्दनयाभिप्रायाविशिष्ट इति न पृथगुदाहरणैर्विभावितः । यां यां संज्ञामभिधत्ते तां तां समभिरोहतीति समभिरूढः, सोऽभिदधाति-यदि लिङ्गमात्रभिन्नमवस्तु, विसंवादित्वात् रक्तनीलतादिवत्, एवं सति मूलत एव भिन्नशब्दं कथं वस्तु स्यात् ? शब्देन ह्यर्थो निरुक्तीक्रियते एतस्मानिरुक्तादेष इति, यत्र तद्भेदस्तद्भिनमेव, यथा तु पूर्वनयेनैकं कृत्वोच्यते इन्द्रशक्रादि तथा यदवस्तु, घटज्वलनादिवद् भिन्नानिमित्तत्वात्, अनयोरेकत्वेनावस्तुता । एवं घटकुटयोरपि चेष्टाकौटिल्यनिमित्तभेदात् पृथक्ता, तथा प्रकृतिप्रत्ययोपात्तनिमित्तभेदात् भिन्नौ शक्रेन्द्रशब्दावेकार्थो न भवतः, विविक्तनिमित्तावबद्धत्वात् गवाश्वशब्दवत् । अथापि प्रतीतत्वादसंप्रमोहाल्लेके चैवं निरूढत्वात् इन्द्रशब्दस्य पुरन्दरादयः पर्याया इत्येतदनुपपन्नम्, एवं हि सामान्यविशेषयोरपि पर्यायशब्दत्वं स्यादेव, यतः प्लक्ष इत्युक्ते द्राक् वृक्षेऽस्ति सम्प्रत्ययः, अस्तित्वासम्प्रमोहे च संज्ञान्तरकल्पनायामिहापि तर्युक्तादनुक्ताप्रतिपत्तौ सत्यां पर्यायत्वप्रसङ्गः प्रविश, पिण्डी भक्षयेत्यस्य गमात्, तथाऽस्तिर्भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति गम्यते, वृक्षः प्लक्षोऽस्तीति गम्यते, न्यायादस्ति पर्यायः प्राप्तः, तस्माद् भेदः साधीयान् दन्तिहस्तिनोश्चैकत्वाद् दन्तहस्तैकत्वप्रसङ्ग इति । एवं संज्ञान्तरोक्तेः संज्ञान्तराभिधानमवस्त्विति प्रतिपादिते एवम्भूतनय आह-निमित्तं कियां कृत्वा शब्दाः प्रवर्तन्ते, नहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org