________________
८५
[52] [एवंभूततत्त्वश्रद्धानरूपस्य सम्यग्दर्शनस्य सम्यग्ज्ञानरूपत्वमेव इति वर्णनं] एवंभूतं वस्तुतत्त्वं श्रद्धानः सम्यग्ज्ञानवानेव पुरुषः सम्यग्दृष्टिरित्याह
एवं जिणपण्णत्ते सद्दहमाणस्स भावओ भावे । पुरिसस्साभिणिबोहे, दंसणभद्दो हवइ जुत्तो ॥३२॥
एवमनन्तरोक्तविधिना जिनप्रज्ञप्तान् भावान् श्रद्दधानस्य पुरुषस्य यदाभिनिबोधिकं ज्ञानं तदेव सम्यग्दर्शनम् विशिष्टावबोधरूपायाः रुचेः सम्यग्दर्शनशब्दवाच्यत्वादिति भावः ॥३२॥ सम्यग्ज्ञाने दर्शनत्वस्य नियततया दर्शने सम्यग्ज्ञानत्वस्य विकल्पनीयतया सम्यग्दर्शनम् विशिष्टज्ञानरूपमेव इति फलिताभिधानम् ॥ (सन्म० कां० २ गा० ३२) 13/3 [53] पुल्लेव मुट्ठी जह से असारे, अयंतिए कूडकहावणे वा।
राढामणी वेरुलियप्पगासे, अमहग्घओ होइ हु जाणएसु ॥४२॥ स चैवंविधः पोल्लेत्यन्तः शुषिरा, एव इत्यवधारणे, तेन पोल्लेव, न मनागपि निबिडा-मुष्टिः-अङ्गलिसन्निवेशविशेषात्मिका यया इति सादृश्ये पठ्यते वापोल्लारमुट्ठीजहत्ति इहापि पोल्लरत्ति शुषिरा, असारत्वं-चोभयोरपि सदर्थशून्यतया, अयंतियत्ति-अयन्त्रितः अनियमितः कूटकार्षापणवत्, वाशब्दस्यहोपमार्थत्वात्, यथा ह्यसौ न केनचित् कूटतया नियन्त्र्यते, तथैषोऽपि गुरूणामप्यविनीततयोपेक्षणीयत्वात्, राढामणित्ति काचमणिर्वैडूर्यवत्प्रकाशते-प्रतिभासत इति वैडूर्यप्रकाश:वैडूर्यमणिसदृशः अमहार्घकः इत्यमहामूल्यो भवति चः-समुच्चये । भिन्नक्रमस्ततोऽमहार्घकश्च जाणएसु त्ति ज्ञेषु मुग्धजनविप्रतारकत्वात्तस्य । (उत्तरा० अ० २० गा०४२) 13/4 [54] कथं व्यवहारस्य प्रतिपादकत्वमिति चेत्
जो हि सुएणहिगच्छइ, अप्पाणमिणं तु केवलं सुद्धं । तं सुयकेवलिमिसिणो, भणंति लोयप्पईवयरा ॥९॥ जो सुयणाणं सव्वं, जाणइ सुयकेवलि तमाहु जिणा । णाणं अप्या सव्वं, जम्हा सुयकेवली तम्हा ॥१०॥ (जुम्म) यो हि श्रुतेनाभिगच्छति, आत्मानमिमं तु केवलं शुद्धम् । तं श्रुतकेवलिनमृषयो, भणन्ति लोकप्रदीपकराः ॥९॥ यः श्रुतज्ञानं सर्वं जानाति, श्रुतकेवलिनं तमाहुर्जिनाः । ज्ञानमात्मा सर्वं यस्माच्छुतकेवली तस्मात् ॥१०॥ (युग्मम्),
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org