________________
४३
इत एवाज्ञाबाह्यशमस्य दुःखपरिणामफलत्वाद् हेतोः, किमित्याह- 'अपनीता' इवापनीताः समुद्भूतावस्थां त्याजिताः, 'क्रियामात्रेण' क्रिययैव बालतपश्चरणाऽकामशीतोष्णाद्यधिसहनरूपया सम्यग् विवेकविकलत्वेन केवलया वक्ष्यमाणतुशब्दस्य पुनरर्थस्येहाभिसम्बन्धाद् 'ये' तु ये पुनः 'क्लेशाः' कामक्रोधलोभाभिमानादयो दोषाः, ते मण्डूकस्य - भेकस्य मृतकस्य सतस्तथाविधप्रयोगाद् यश्चूर्णःअतिसूक्ष्मखण्डसमूहलक्षणो मण्डूकचूर्णस्तस्मात् किञ्चिदूना मण्डूकचूर्णकल्पा वर्त्तन्ते। इत्यन्यैरपि तीर्थान्तरीयैः सौगतादिभिर्वणिता: स्वशास्त्रेषु निरूपिता 'नवरं'केवलम् । तदुक्तं- 'क्रियामात्रतः कर्म्मक्षयो मण्डूकचूर्णवत्, भावनातस्तु तद्भस्मवत् इत्यादि ॥१९१॥ (उपदेशपद प्रक० गा० - १९१) 11/7 [47] एतदेवाह
जड़ जिणमयं पवज्जह, ता मा ववहारणिच्छए मुअह । ववहारणउच्छेए, तित्थुच्छेओ जओवस्सं ॥ १७२ ॥
वृत्ति:- यदि जिनमतं प्रपद्यध्वं यूयं ततो मा व्यवहार-निश्चयौ मुञ्चत-मा हासिष्ठाः, किमित्यत्र आह- व्यवहारनयोच्छेदे तीर्थोच्छेदो यतोऽवश्यम्, अतो व्यवहारतोऽपि प्रव्रजितः प्रव्रजित एव इति गाथार्थः (पञ्चव० गा०१७२ ) 11/7... 32/1
[48] अहो जिणेहिं असावज्जा, वित्ती 'साहूण देसिआ । मुक्खसाहणहेउस्स, साहुदेसस्स धारणा ॥ ९२ ॥
अहो जिणेहिं सूत्रम् - अहो - विस्मये, जिनैः - तीर्थकरैः, असावद्या- अपापा, वृत्ति:- वर्तना, साधूनां दर्शिता देशिता वा, मोक्षसाधनहेतोः- सम्यग्दर्शनज्ञानचारित्रसाधनस्य साधुदेहस्य धारणाय संधारणार्थमिति सूत्रार्थ: । (दशवै० अ० ५ उ० १ गा० ९२ ) 12/7
[49] जं सम्मं ति पासहा तं मोणंति पासहा, जं मोणंति पासहा तं सम्म ति पासहा, ण इमं सक्कं सिढिलेहिं अदिज्जमाणेहिं गुणासाएहिं वंकसमायारेहिं पत्तेर्हि गारमावसंतेर्हि मुणी मोणं समायाए धुणे कम्मसरीरगं पंतं लूहं सेवंति वीरा सम्मत्तदंसिणो... ॥। १५५ ॥
यदेव च पापकर्म्मवर्जनं तदेव च सम्यक् प्रज्ञानमित्येतद्गतप्रत्यागतसूत्रेणैव दर्शयितुमाह सम्यगिति सम्यग्ज्ञानं सम्यक्त्वं वा तत्सहचरितम्, अनयो: सहभावादेकग्रहणे द्वितीयग्रहणं न्याय्यम्, यदिदं सम्यग्ज्ञानं सम्यक्त्वं वेत्येतत्पश्यत तन्मुने: भावो मौनं - संयमानुष्ठानमित्येतत्पश्यत, यच्च मौनमित्येतत् पश्यत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org