________________
३४
बहवः प्रभूता गुणा निष्ठुरक्रियाकरणादिरूपा यस्य स बहुगुणः विद्याश्चतुर्दश श्रुताभ्यासरूपा वा तासां निलय इव निलयो गृहमिति यावत्ततश्च कर्मधारयः । अथवा बहुगुणेति विद्याविशेषणं बहुगुणत्वं च विद्याया लोके लोकोत्तरे च सिद्धम्, तदुक्तम्
हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदाऽप्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धि पराम् ॥ कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनम्,
येषां तान् प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ॥ ६८ ॥ ( भर्तृहरेः)
जह जह सुयमवगाहइ, अइसयरसपसरसंजुयमपुव्वं ।
तह तह पल्हाइमुणी, नव नव संवेग सद्धाए ॥६९ ||
ततो यद्यपि बहुगुणविद्यानिलयस्तथापि तदपि उत्सूत्रभाषीसिद्धान्तविरुद्धमार्गोपदेष्टा चेत् तर्हि मोक्तव्य एव त्याज्य एव । तदुक्तं
उम्मग्गदेसणार चरणं, नासंति जिणवरिंदाणं ।
वावन्नदंसणा खलु, नहु लब्भा तारिसा दट्टु ॥७०॥
अमुमेवार्थं द्रढयन् दृष्टान्तमाह-जहेत्यादि - यथेत्यौपम्ये, वरः - प्रधानो विषादिदोषनिराकरणेन मणीरत्नं वरमणिस्तेनयुक्तोऽपि सहितोऽपि, हुरवधारणे, स चाग्रे यो जयिष्यते । विषधरो - भुजगो लोके विघ्नकर एव- जीवितादिप्रत्यूहकर एव तस्मान्मोक्तव्य इति । यथा हि विषधरो वरमणियुक्तोऽपि विघ्नकर एव तथोत्सूत्र भाषी मणिसमानबहुगुणविद्यावानपि धर्मविघ्नकर एवेति मोक्तव्य इत्यर्थः ॥ १८ ॥ षष्टिशतकप्र० गा०१८ ) 9/8
[37] आया चेव अहिंसा, आया हिंसत्ति निच्छओ एसो । जो होइ अप्पमत्तो, अहिंसओ हिंसओ इयरो ॥ ७५५ ॥
आत्मैवाहिसा आत्मैव हिंसा इत्ययं निश्चय इत्यर्थः । कथमसावहिंसकः कथं वा हिंसकः ? इत्यत आह- 'जो होइ' इत्यादि, यो भवति 'अप्रमत्तः ' प्रयत्नवानित्यर्थः स खल्वेवंविधोऽहिंसको भवति, 'हिंसओ इयरो' त्ति 'इतरः ' प्रमत्तो यः स हिंसको भवतीत्ययं परमार्थः । अथवाऽनेनाभिप्रायेणेयं गाथा व्याख्यायते, तत्र नैगमस्य जीवेष्वजीवेषु च हिंसा, तथा च वक्तारो लोके दृष्टाः, यदुत जीवोऽनेन हिंसितो -- विनाशितः, तथा घटोऽनेन हिंसितो - विनाशितः, ततश्च सर्वत्र हिंसाशब्दानुगमात् जीवेष्वजीवेषु च हिंसा नैगमस्य, अहिंसाऽप्येवमेवेति, संग्रहव्यवहारयोः : षट्सु जीवनिकायेषु हिंसा, संग्रहश्चात्र देशग्राही द्रष्टव्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org