________________
[12] ननु कश्चन कामभोगेषु सत्सु (न) वीतरागः सम्भवति, तत्कथमस्य दुःखाभावः ? उच्यते
न कामभोगा समयं उविंति, न यावि भोगा विगई उविति ।
जे तप्पओसी य परिग्गही य, सो तेसु मोहा विगई उवेइ ॥१०१॥ ___ 'न'-नैव, 'कामभोगाः'-उक्तरूपाः, 'समतां'-रागद्वेषाभावरूपाम्, 'उपयान्ति'-उपगच्छन्ति हेतुत्वेनेति गम्यते, तद्धेतुत्वे हि तेषां न कश्चिद्रागद्वेषवान् भवेत्, न चापि 'भोगाः' -भुज्यमानतया सामान्येन शब्दादयः 'विकृति'क्रोधादिरूपाम्, इहापि हेतुत्वेनोपयान्तीत्यन्यथा न कश्चन रागद्वेषरहितः स्यात् कोऽनयोस्तर्हि हेतुः ? इत्याह-य: 'तत्प्रदोषी च' तेषु-विषयेषु प्रद्वेषवान् ‘परिग्रही च' परिग्रहबुद्धिमान्, तेष्वेव रागीत्युक्तं भवति, स 'तेषु'-विषयेषु 'मोहात्'रागद्वेषात्मकात् मोहनीयात् विकृतिमुपैति, रागद्वेषरहितस्तु समतामित्यर्थादुक्तम्, उक्तं हि पूर्व–'सतोरेव रागद्वेषयोरुदीरकत्वेन शब्दादयो हेतव' इति, आह-"समो य जो तेसु स वीयरागो" इत्यनेन गतार्थमेतत्, सत्यम्, तस्यैव त्वयं प्रपञ्चः, उक्तं हि 'त एव विधयः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्चोच्यते' इति सूत्रार्थः ॥ (उत्तरा०अ०३२, गा०१०१) 4/3 [13] साम्प्रतं ज्ञानशब्दस्य संबन्धिशब्दत्वाद्येषां तज्ज्ञानं तान्यभिधातुमाह
एयं पंचविहं नाणं, दव्वाण य गुणाण य ।
पज्जवाणं च सव्वेसिं, नाणं नाणीहिं देसियं ॥५॥ 'एतद्-' अनन्तरोक्तं पञ्चविधं ज्ञानम्, द्रवन्ति-गच्छन्ति तांस्तान् पर्यायानिति द्रव्याणि वक्ष्यमाणलक्षणानि तेषाम्, 'च:'-तद्गतानेकभेदख्यापको, गुणानांरूपादीनाम्, चः-प्राग्वत्, परीति-सर्वतः, कोऽर्थः ? द्रव्येषु गुणेषु सर्वेष्ववन्तिगच्छन्तीति पर्यवास्तेषां च, 'सर्वेषाम्'-अशेषाणाम्, केवलापेक्षया चायं द्रव्यकात्स्न्र्ये सर्वशब्दः शेषज्ञानापेक्षया तु प्रकारकात्स्न्ये, प्रतिनियतपर्यायग्राहित्वात्तेषाम्, 'ज्ञानम्'-अवबोधकम्, 'ज्ञानिभिः'-अतिशयज्ञानोपेतैः केवलिभिरितियावत् 'देशितं'-कथितम् । अनेन च यदाहुः-ज्ञानं ज्ञानस्वरूपस्यैव ग्राहकम्, बाह्याभिमतस्य वस्तुनो ज्ञानातिरिक्तस्यासत्त्वाद् अत एवोक्तं- स्वरूपस्य स्वतो गति'रिति, तन्निरस्तम्, अन्तः सुखादिप्रतिभासवद्-बहिः स्थूलप्रतिभासस्यापि स्वसंविदितत्वात्, न च युगपद्वेद्यमानयोरेकस्य तात्त्विकमितरस्य त्वन्यथात्वमिति निमित्तं विना कल्पयितुं शक्यम्, अथैकत्राविद्योपदर्शितत्वं तत्कल्पननिमित्तम्, न, यतस्तदितरत्रापि किं न कल्प्यते ? निमित्तं विना कल्पनाया उभयत्राविशेषात्, तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org