________________
सुखाध्यवसायः, पामाकण्डूयनापथ्याहारपरिभोगादिवत्, तथा चोक्तम्
"नग्नः प्रेत इवाविष्टः, क्वणन्तीमुपगृह्य ताम् । गाढायासितसर्वाङ्गः, स सुखी रमते किल ॥१॥
औत्सुक्यमात्रमवसादयति प्रतिष्ठा, क्लिश्नाति लब्धपरिपालनवृत्तिरेव । नातिश्रमापगमनाय यथा श्रमाय, राज्यं स्वहस्तगतदण्डमिवातपत्रम् ॥२॥
भुक्ताः श्रियः सकलकामदुधास्ततः किम् ? संप्रीणिताः प्रणयिनः स्वधनैस्ततः किम् ? । दत्तं पदं शिरसि विद्विषतां ततः किम् ?
कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ? ॥३॥ इत्थं न किञ्चिदपि साधनसाध्यजातम्, स्वप्नेन्द्रजालसदृशं परमार्थशून्यम् । अत्यन्तनिर्वृतिकरं यदपेतबाधम्, तद् ब्रह्म वाञ्छत जनाः ! यदि चेतनास्ति ॥४॥"
इत्यादिना 'पुण्णफलं ति दुक्खं ति' यत एवमुक्तप्रकारेण दुःखेऽपि सुखाभिमानः, तस्मात् पुण्यफलमपि सर्वं तत्त्वतो दुःखमेवेति ॥२००५॥ (विशेषा०भा०गा०२००५) 2/6...10/8
एतदेव प्रपञ्चयतिविसयसुहं दुक्खं चिय दुक्खपडियारओ तिगिच्छ व्व । तं सुहमुवयाराओ न उवयारो विणा तच्चं ॥२००६॥
विषयसुखं तत्त्वतो दुःखमेव, दुःखप्रतीकाररूपत्वात् कुष्ठ-गण्डा-ऽर्शोरोग क्वाथपान-च्छेदन-दम्भनादिचिकित्सावत् ॥ यश्च लोके तत्र सुखव्यपदेशः प्रवर्तते, स उपचारात् । न चोपचारस्तथ्यं पारमार्थिकं विना क्वापि प्रवर्तते, माणवकादौ सिंहाधुपचारवदिति ॥२००६॥ (विशेषा०भा०गा० २००६) 2/6...10/8 यदुक्तम्-'आधारो देहो च्चिय जं सुह-दुक्खोवलद्धीणं' इति (गा०२००३) तत्राह
साया-ऽसायं दुक्खं, तव्विरहम्मि य सुहं जओ तेणं । देहिदिएसु दुक्खं, सोक्खं देहिदियाभावे ॥२०११॥
ननु यत् पुण्यफलं सातं सुखतया लोकव्यवहारतो रूढं तत् सर्वं दुःखमेवेत्यनन्तरमेव समर्थितम्, असातं तु पापफलत्वाद् निर्विवादं दुःखमेव । एवं च सति सर्वं दुःखमेवास्ति संसारे, न सुखम् । तच्च दुःखं सिद्धस्य सर्वथा क्षीणम् । अतस्तद्विरहे यद्-यस्मात् सिद्धस्य स्वाभाविकम्, निरुपमम्, अनन्तं च युक्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org