________________
तच्छब्देन ध्यानं परामृश्यते । ध्यानमेव अर्थमात्राभासनरूपकं ध्येयाकारमात्रावलम्बनं तस्य नामैकं समाधिरिति । संग्रहमाह...एवममुना प्रकारेण पूर्वोक्तैः अष्टभिः यमाद्यङ्गैः अष्टधा योगः सम्मतः, योगिनां मान्य इत्यर्थः ॥८५॥ [अभि०-चिं०ना० श्लो० ८५] 2/1 [4] ते कत्तिया पएसा, सव्वागासस्स मग्गणा होइ ।
ते जत्तिया पएसा, अविभाग तओ अणंतगुणा ॥४५१२॥ 'ते' चारित्रस्य प्रदेशाः 'कियन्तः'-किंप्रमाणा इति चिन्तायां निर्वचनमाहसर्वस्य लोकालोकगतस्याकाशस्य मार्गणा भवति । यावन्तः किल 'ते' सर्वाकाशस्य प्रदेशाः 'ततः'-तेभ्यः सर्वाकाशप्रदेशेभ्यश्चारित्रस्य अविभागपरिच्छेदा अनन्तगुणाः सर्वजघन्येऽपि संयमस्थाने प्रतिपत्तव्याः । एषा अविभागपरिच्छेदप्ररूपणा १।
सर्वजघन्यात् संयमस्थानाद् यद् द्वितीयं संयमस्थानं तत् तस्मादनन्तभागवृद्धम् । किमुक्तं भवति ?-प्रथमसंयमस्थानगतनिर्विभागभागापेक्षया द्वितीये संयमस्थाने निविभागा भागा अनन्ततमेन भागेनाधिका भवन्तीति । एषा स्थानान्तरप्ररूपणा २।
तस्मादपि यदनन्तरं तृतीयं तत् ततोऽनन्तभागवृद्धम्, एवं पूर्वस्मादुत्तरोत्तराणि अनन्ततमेन भागेन वृद्धानि निरन्तरं संयमस्थानानि तावद् वक्तव्यानि यावदङ्गलमात्रक्षेत्रासङ्ख्येयभागगतप्रदेशराशिप्रमाणानि भवन्ति । एतावन्ति च समुदितानि स्थानानि कण्डकमित्युच्यते । एषा कण्डकप्ररूपणा ३।
अस्माच्च कण्डकात् परतो यदन्यदनन्तरं संयमस्थानं भवति तत् पूर्वस्मादसङ्ख्येयभागाधिकम् । एतदुक्तं भवति-पाश्चात्यकण्डकसत्कचरमसंयमस्थानगतनिविभागभागापेक्षया कण्डकानन्तरे संयमस्थाने निविभागा भागा असङ्ख्येयतमेन भागेनाधिकाः प्राप्यन्ते । ततः पराणि पुनरपि कण्डकमात्राणि संयमस्थानानि यथोत्तरमनन्तभागवृद्धानि भवन्ति, ततः पुनरेकमसङ्ख्येयभागाधिकं संयमस्थानम्, भूयोऽपि ततः पराणि कण्डकमात्राणि संयमस्थानानि यथोत्तरमनन्तभागवृद्धानि भवन्ति, ततः पुनरप्येकमसङ्ख्येयभागाधिकं संयमस्थानम्, एवमनन्तभागाधिकैः कण्डकप्रमाणैः संयमस्थानैर्व्यवहितानि असङख्येयभागाधिकानि संयमस्थानानि तावद् वक्तव्यानि यावत् तान्यपि कण्डकप्रमाणानि भवन्ति । ततश्चरमादसङ्ख्येयभागाधिकसंयमस्थानात् पराणि यथोत्तरमनन्तभागवृद्धानि कण्डकमात्राणि संयमस्थानानि भवन्ति, ततः परमेकं सङ्ख्येयभागाधिकं संयमस्थानम्, ततो मूलादारभ्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org