________________
नियागाष्टकम् (२८)
१८७ पापध्वंसिनि-पापकर्मविनाशके आत्मस्वरूपे ज्ञानं-स्वपरावभासकं तद्रूपे यज्ञे रतो भव-तन्मयो भव, किं भूतिकामनया-इहलोकसुखेच्छया ? सावधैः-पापसहितैः आविलैः-म्लानैः यज्ञैः किं ? न किमपि, न हिताय, तेन तत्करणं न युक्तम् । आत्मस्वरूपोपयोगः-तन्मयैकत्वपरिणतिः कर्माभावकरी, तेन तत्र यतितव्यम् ॥२॥
वेदोक्तत्वान्मनःशुद्ध्या, कर्मयज्ञोऽपि योगिनः । ब्रह्मयज्ञ इतीच्छन्तः, श्येनयागं त्यजन्ति किम् ? ॥३॥
वेदोक्तत्वादिति- वेदोक्तत्वाद् मनःशुद्ध्या कर्मयज्ञः अपि ब्रह्मयज्ञ इति इच्छन्तः योगिनः श्येनयागं किं त्यजन्ति ? इति स्वमतकल्पनां कुर्वन्ति मूढाः । ते निषेधनीयाः । न हि संसारकामनया हिंसा 'सुखकरी भवति साध्यशुद्धिमन्तरेण न प्रयासो हिताय । अतो नैव कर्त्तव्यमिति ॥३॥
ब्रह्मयज्ञः परं कर्म, गृहस्थस्याधिकारिणः । पूजादि वीतरागस्य, ज्ञानमेव तु योगिनः ॥४॥
ब्रह्मयज्ञ इति- गृहस्थस्य-सावधप्रवृत्तस्य अधिकारिणःयोग्यस्य न्यायोपार्जितादिवित्तवतः, वीतरागस्य पूजादिकर्मकरणं परम्उत्कृष्टं ब्रह्मयज्ञ इति ज्ञेयम् । संवराभावे आश्रवाणां परावृत्तिः 'प्रशस्तताकरणं युक्तम् । उक्तं च[124] अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे, दव्वथए कूवदिटुंतो ॥१२२४॥
[पञ्चव०प्र० गा० १२२४] इति रागपापस्थानस्य प्रशस्तताकरणोपदेशः । आगमे सर्वाश्रवाणां प्रशस्तता साधने गृहीता, तथा च मुनिविनये शासनविनये हर्षादि (वर्षादि-)जीवघातोऽपि न बन्धाय । तथा- [125] प्रज्ञापनायाम् [प्रज्ञा० प० ११, सू०१७४] भाषाचतुष्टयमपि मुनीनाम्, इत्यादिकम्,
१. सुखकारी V.1., A.D. विना । २. प्रशस्तीकरणं B.1. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org