________________
योगाष्टकम् (२७)
१८५ चक्रभ्रमणं दण्डात्तदभावे चैव यत्परं भवति । वचनासङ्गानुष्ठानयोस्तु तज्ज्ञापकं ज्ञेयम् ॥८॥ अभ्युदयफले चाऽऽद्ये, निःश्रेयससाधने तथा चरमे । एतदनुष्ठानानां विज्ञेये इह गतापाये ॥९॥
[षोड०प्र०षोड० १०, श्लो० ३-४-५-६-७-८-९] इति एवं क्रमेण योगसाधनारतः सर्वयोगरोधं कृत्वा अयोगी भवति
||७||
स्थानाद्ययोगिनस्तीर्थोच्छेदाद्यालम्बनादपि । सूत्रदाने महादोष, इत्याचार्याः प्रचक्षते ॥४॥
॥ इति योगाष्टकम् ॥ २७ ॥ स्थानाद्येति-स्थानादिप्रवृत्तियोगरहितस्य सूत्रदानं महादोष इति आचार्या-हरिभद्रादयः प्रचक्षते-कथयन्ति । कस्मात् ? तीर्थोच्छेदाद्यालम्बनात् । निरास्तिकस्य सूत्रदाने कदाचित् कुप्ररूपणाकरणेन तीर्थोच्छेदो भवति । उक्तं च विंशतिकायाम्[120] तित्थसुच्छेयाइ वि, नालंबणमित्थ जं स एमेव ।
सुत्तकिरियाइ नासो, एसो असमंजसविहाणा ॥१४॥ सो एस वंकओ चिय, न य सयमयमारियाणमविसेसो । एयं पि भावियव्वं इह तित्थुच्छेयभीरुहिं ॥१५॥ मुत्तूण लोगसन्नं, उड्डण य साहुसमयसब्भावं । सम्मं पयट्टियव्वं, बुहेणमइनिउणबुद्धीए ॥१६॥
एवं प्रथम स्थानादिविशुद्धिं कृत्वा इच्छादिपरिणतः क्रमेण स्वरूपावलम्बनादि गृहीत्वा प्रीत्याद्यनुष्ठानेन असङ्गानुष्ठाने गतः सर्वज्ञो भूत्वा अयोगीभूय सिद्धो भवति, अतः क्रमसाधना श्रेयस्करी ।
॥ इति व्याख्यातं योगाष्टकम् ॥२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org