SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ भवोद्वेगाष्टकम् (२२) १५७ शोकवियोगादिकष्टपर्वतैः रुद्धमार्गस्य जन्तोः सहगमनमशक्यं भवति । पुनः यत्र भवसमुद्रे कषायाः क्रोधमानमायालो भरूपाः पातालकलशाः तृष्णा-विषयपिपासा तद्रूपैः महानिलैः - महावातैः भृताः, चित्तं मनः तस्य सङ्कल्पाः अनेकजलसमूहाः तद्रूपा वेला -जलप्रवाहरूपा तस्याः वृद्धि-वेलागमनं वितन्वते - विस्तारयन्ति । इत्यनेन कषायोदयात् तृष्णावातप्रेरणया विकल्पवेलां वर्द्धयन्ति भवजलधौ अबुधाः इति ||२|| यत्र जन्ममरणसमुद्रे स्मरः - कन्दर्पः तद्रूपः ३ अन्तर्मध्ये और्वाग्निःवडवानलः ज्वलति । यत्राग्नौ स्नेहेन्धनः- स्नेहो - रागः स एव इन्धनःज्वलनयोग्यकाष्ठसमूहः अन्यत्र वडवाग्नौ जलेन्धनम् इति । किम्भूतः रागः? यो रागः घोररोगशोकादयो मच्छकच्छपाः तैः संकुलः-व्याप्तः । इत्यनेन रागाग्निप्रज्वलनरोगशोकतापतापितप्राणिगणः एवंरूपो भवाब्धिः । पुनः यत्र सांयात्रिका:- प्रवहणस्थाः लोकाः, अत्रापि व्रतनियमादिपोतस्था जीवाः उत्पातसङ्कटे कष्टे पतन्ति । कैः ? दुष्टा बुद्धिः दुर्बुद्धिः, मत्सरम्-असहनसंयुक्ताहङ्कारः, द्रोह:- कापट्यम्, इत्यादय एव विद्युद्दुर्वातगर्जिताः तैः । इत्यनेन दुर्बुद्धिविद्युता मत्सरदुर्वातेन द्रोहगर्जितेन व्रतादिपोताः ६प्रवर्त्तमाना अपि कुमार्गगमने ̈ पङ्कस्खलनाद्युत्पातान् लभन्ते । इत्यनेन महाभववारिधौ एते महाव्याघाताः सन्मार्गप्राप्तौ, तस्माद् अतिदारुणात्- महाभयानकाद् नित्योद्विग्नः - सदोदासीनः तस्य सन्तरणोपायं सम्यग्ज्ञान - दर्शन - चारित्ररूपं काङ्क्षति - अभिलषति । इति भवभीत:" इव तिष्ठति । चिन्तयति च मम - शुद्धज्ञानमयस्य, परमतत्त्वरमणचारित्रपवित्रस्य, रागद्वेषक्षयसमुत्थपरमशमशीतलस्य, अनन्तानन्दसुखमग्नस्य, सर्वज्ञस्य, परमदक्षस्य, शरीराहारसङ्गमुक्तस्यामूर्त्तस्य, कथं शरीरादिव्यसनसमूहभारभुग्नताभुग्नस्वशक्तिवत्त्वं युज्यते ? नाहं शरीरी १. सहगमन० V. 1. विना । २ - ३ एष पाठो नास्ति सर्वप्रतिषु । ४. जलेन्धन: A.D.V. 1. । ५. शोकतापित० V. 1.A.D. विना । ६. प्रवर्तन्तोऽपि, सर्वप्रतिषु । ७. गमने A.D. V. 1 विना । ८. भवालीनभीत: - V. 1. 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy