________________
१५५
भवोद्वेगाष्टकम् (२२) निर्ग्रन्थस्य छलमन्विष्य-गवेषयित्वा हृष्यति-हर्षं प्राप्नोति । इत्यनेन मार्गानुसारिनिर्ग्रन्थस्य क्षायोपशमिकगुणवत्त्वात् प्रमादादिदोषात्, शङ्काद्यतिचारावसरे हृष्यति, नाम वर्धते इत्युपचारः, अतः कर्मविपाके रक्तद्विष्टता न करणीया ॥७॥
साम्यं बिभर्ति यः कर्म-विपाकं हृदि चिन्तयन् । स एव स्याच्चिदानन्द-मकरन्दमधुव्रतः ॥८॥
॥ इति कर्मविपाकध्यानाष्टकम् ॥२१॥ साम्यमिति यः-आत्मार्थी कर्मविपाकं-शुभाशुभविपाकं चिन्तयन्विचारयन्, हृदि-चित्ते साम्यं-तुल्यत्वम् इष्टानिष्टतारहितं बिभर्ति, स एव योगी, चिदानन्दमकरन्दमधुव्रतः-ज्ञानानन्दस्य (न्द एव) मकरन्दःरहस्यं तस्य मधुव्रतः-रसास्वादी, स्यात्-भवति । आत्मानन्दभोगी भवति, इत्यनेन आत्मानन्दरसरसिकः शुभाशुभविपाकोदयेन रागद्वेषवान् न भवति, सर्वान् [प्रति] समवृत्तिः मुनिः ॥८॥ ॥ इत्येवं कर्मविपाके समानत्वचिन्तनाष्टकं समाप्तम् ॥२१॥
अथ भवोद्वेगाष्टकम् ॥२२॥ कर्मविपाकोद्विग्नभावात् संसाराद् उद्विजति, अतो भवोद्वेगाष्टकं लिख्यते । तत्र नामभवः रुद्रादिः । अथवा-तन्नाम ऐशब्दालापरूपः, स्थापनाभवः लोकाकाशः तदाकारो वा । द्रव्यभवः भवभ्रमणेन हेतुरूपः धनस्वजनादिः । भावभवः चतुर्गतिरूपः जन्मरणादिलक्षणः । नयस्वरूपं च-द्रव्यनिक्षेपे यावत् नयचतुष्टयम्, भावनिक्षेपे शब्दादिनयत्रयं ज्ञेयम् । अत्र च भवमग्नानां जीवानां न धर्मेच्छा, इन्द्रियसुखास्वादलीना मत्ता इव निविवेकाः भ्रमन्ति । दुःखोद्विग्ना इतस्ततः दुःखापनोदार्थम् अनेकोपायचिन्तनव्याकुला भ्रमन्ति शूकरा इव । इति महामोहभवाम्भोधौ
-
१. मन्विष्यन् गवेषयन् । २. A.D.V.1. प्रतौ अस्ति । ३. सचोल्लाप० V.2.B.1. / एवोल्लाप० A.D. I ४. भ्रमणेन V.1.A.D. विना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org