________________
श्रीज्ञानमञ्जरी
श्लेषालङ्कारार्थं हि वाक्यपद्धतिः, न सत्या । मुनिः- तत्त्वज्ञानी अध्यात्मआत्मस्वरूपैकत्वतारूपे कैलाशे - आस्थाने, विवेक:- स्वपरविवेचनं स एव वृषभ: - (बलीवर्द: ), तत्र स्थितः, विरतिः- चारित्रकलाऽऽश्रवनिवृत्तिः, ज्ञप्ति:- ज्ञानकला शुद्धोपयोगता, ते एव गङ्गागौर्यौ, ताभ्यां युतः शिवः - निरुपद्रवः, उपचारात् शिवः रुद्रः भासते । रुद्रस्य गङ्गायुतत्वं विद्याधरत्वे पार्वतीमनोरञ्जनाय विक्रियाकाले वाच्यम् ॥५॥ ज्ञानदर्शनचन्द्रार्क- नेत्रस्य नरकच्छिदः । सुखसागरमग्नस्य किं न्यूनं योगिनो हरेः ? ॥६॥
"
१४८
ज्ञानदर्शनेति - योगिनः - रत्नत्रयपरिणतस्य, हरेः- कृष्णात् किं न्यूनम् ? न किमपि किम्भूतस्य योगिनः ? ज्ञानदर्शनचन्द्रार्कनेत्रस्य - ज्ञानंसामान्यविशेषात्मके वस्तुनि विशेषावबोधः । सामान्यविशेषात्मके वस्तुनि सामान्यावबोधः दर्शनम् । तौ (ते) एव चन्द्रार्कौ नेत्रे यस्य स तस्य, हरेः चन्द्रार्कनेत्रत्वं तु लोकोक्तिरेव । पुनः किम्भूतस्य योगिनः ? - नरकच्छिदः नरकगतिनिवारकस्य, हरेस्तु - नरकाभिधानशत्रुविदारकस्य, सुखसागरमग्नस्य, कृष्णार्थे इन्द्रियजसुखलीलासमुद्रमग्नत्वम्, योगिनस्तु सुखं सम्यग्ज्ञानदर्शनचारित्रसमाधिनिष्पन्नं तस्य सागरः तत्र मग्नस्य, आध्यात्मिकसुखपरिणामभाजनस्य साधोः केन सह न्यूनता ? न केनापि
इति ||६||
या सृष्टिब्रह्मणो बाह्या, बाह्यापेक्षावलम्बिनी । मुनेः परानपेक्षान्तर्गुणसृष्टिस्ततोऽधिका ॥७॥
या सृष्टिर्ब्रह्मण इति - या सृष्टि:- रचना ब्रह्मणो - विधातुः सा बाह्या लोकोक्तिरूपा असत्या । पुनः बाह्या अपेक्षा तस्या अवलम्बनाअवलम्बिका । मुनेः-स्वरूपसाधनसिद्धिमग्नस्य अन्तः - मध्ये आत्मनि व्यापकरूपा गुणानां सृष्टि:- रचना गुणप्राग्भावप्रवृत्तिपरिणतिरूपा, बाह्यभावतः अधिका । कथंभूता गुणसृष्टिः ? परानपेक्षा परेषाम् १. बाह्वी S.M. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org