________________
१४६
श्रीज्ञानमञ्जरी रोधितेषु न हि इन्द्रियप्रचारचलोपयोगैः आत्मनः अभ्यन्तरामूर्ताकर्मावृता स्वसत्तासंपद् ज्ञायते । रोधितेन्द्रियचापल्ये स्थिरप्रगुणचेतनोपयोगैः कर्ममलेपटलावगुण्ठिताप्यात्मसम्पद् ज्ञायते इति । इत्यनेन बहिर्गमनमुपयोगस्य न कर्त्तव्यमिति ॥१॥
समाधिर्नन्दनं धैर्यम्, दम्भोलिः समता शची । ज्ञानं महाविमानं च, वासवश्रीरियं मुनेः ॥२॥
समाधिरिति- मुनेः-स्वरूपज्ञानानुभवलीनस्य, इयम्- उच्यमाना वासवस्य-इन्द्रस्य, श्रीः-लक्ष्मी: शोभा वर्तते । अत्र मुनेः२ पवित्ररत्नत्रयीपात्ररूपेन्द्रस्य समाधिः ध्यानध्याता(तृ)ध्येयैकत्वेन निर्विकल्पानन्दरूपा समाधिः, स एव नन्दनं वनम् । हरेः नन्दनवनक्रीडा सुखाय उक्ता, साधोः समाधिक्रीडा सुखाय । तत्राप्यौपाधिकात्मीयकृतो महान् भेदः, स च अध्यात्मभावनया ज्ञेयः । अस्य धैर्य-वीर्याकम्पता औदयिकभावाक्षुब्धतालक्षणं वज्रं-दम्भोलिः, पुनः समता-इष्टानिष्टेषु संयोगेषु अरक्तद्विष्टता । सर्वेऽपि पुद्गलाः कर्करचिन्तामण्यादिपरिणताः जीवाश्च भक्ताभक्ततया परिणताः, ते सर्वे न मम, भिन्नाः एते, तेषु का रागद्वेषपरिणतिरित्यवलोकनेन समपरिणतिः समता, सा शची स्वधर्मपत्नी । ज्ञानं-स्वपरभावयथार्थावबोधरूपम्, विमानं सर्वावबोधकरं महाविमानम् । इत्यादिपरिवृतः मुनिः वज्रीव भासते । उक्तं च श्रीयोगशास्त्रे
पुंसामयत्नलभ्यं ज्ञानवतामव्ययं पदं नूनम् । यद्यात्मन्यात्मज्ञानमात्रमेते समीहन्ते ॥११॥ श्रयते सुवर्णभावम्, सिद्धरसस्पर्शतो यथा लोहम् । आत्मध्यानादात्मा, परमात्मत्वं तथाऽऽप्नोति ॥१२॥
_ [प्र० १२ श्लो० ११-१२] १. कर्ममय० B.2, V.2., S.M. (संशो.) । २. मुनिः सर्वप्रतिषु । ३. तदेव सर्वप्रतिषु । ४. पुद्गलानेक० V.1. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org