________________
११२
श्रीज्ञानमञ्जरी संयमास्त्रमिति-संयमः-परभावनिवृत्तिरूपः तदेव अस्त्रं विवेकेनस्वपरविवेचनेन शाणेन-'शराणेकरी' इति भाषा । उत्तेजितम्-उत्कृष्टतेजस्तां नीतम्, धृतिः-सन्तोषः, तद्रूपा धारा तया उल्बणं-तीक्ष्णं संयमास्त्रम्, कर्म-ज्ञानावरणादि, तदेव शत्रुः तस्य छेदः तस्मिन् क्षमसमर्थं भवति, इत्यनेन अनादिमिथ्यात्वासंयमाज्ञानाधिष्ठः विशिष्टोत्कृष्टरूपस्वरूपधर्मभ्रान्त्या परभावैकत्वोत्पन्नविपर्यासकर्तृत्व-भोक्तृत्वग्राहकत्वाद्यशुद्धपरिणत्या संगृहीतकर्मोपाधिः तद्विपाकप्राप्तशुभाशुभसंयोगभोगेन रागद्वेषपरिणतः संसारे संसरति जीवः, स एव त्रिलोकवत्सलार्हदुक्तपरमागमसंयोगपीततत्त्वरहस्यः स्वपरविवेकेन परभावविभावाभ्यां निर्वृतः शुद्धात्मीयस्वभावरुचिः सर्वाश्रवनिर्वृतः परमात्मसाधको भवति । अत एव स्वपरभेदज्ञानरूपविवेकाभ्यासः करणीयः ॥८॥ ॥ इति व्याख्यातं विवेकाष्टकं पञ्चदशम् ॥ १५ ॥
अथ माध्यस्थाष्टकम् ॥१६॥ अथ विवेकी रागद्वेषवान् न भवति शुभाशुभसंयोगे मध्यस्थो भवति । अतो माध्यस्थ्यं निरूपयति । अत्र भावना-धर्मध्यानालम्बनरूपा चतुष्प्रकारा, मैत्री १ प्रमोदा २ माध्यस्था ३ करुणा ४ एवं च[70]मा कार्षीत्कोऽपि पापानि, मा च भूत् कोऽपि दुःखितः।
मुच्यतां जगदप्येषा, मतिमैत्री निगद्यते ॥११८॥ अपास्ताशेषदोषाणाम्, वस्तुतत्त्वावलोकिनाम् । गुणेषु पक्षपातो यः, स प्रमोदः प्रकीर्तितः ॥११९॥ दीनेष्वार्तेषु भीतेषु, याचमानेषु जीवितम् । उपकारपरा बुद्धिः, कारुण्यमभिधीयते ॥१२०॥ क्रूरकर्मसु निःशङ्कम्, देवतागुरुनिन्दिषु । आत्मशंसिषु योपेक्षा, तन्माध्यस्थ्यमुदीरितम् ॥१२१॥
। [यो०शा० प्र०-४ श्लो० ११८-१२१] १. ०त्कृष्टा० B.2., A.D., V.1.2. । २. रागद्वेषाभाववान् भवति B.2. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org