________________
१०५
विवेकाष्टकम् (१५) व्याबाधारूपे समस्तपरभावमुक्ते 'आत्मबुद्धिः अन्तरात्मा । सम्यग्दृष्टिगुणस्थानकतः क्षीणमोहं यावत् अन्तरात्मा उच्यते २ । यः केवलज्ञानदर्शनोपयुक्तः शुद्धसिद्धः स परमात्मा, सयोगी अयोगी केवली सिद्धश्च स परमात्मा उच्यते । सर्वत्र परमात्मत्वसत्ता समाना, अतो भेदज्ञानेन सर्वं साध्यमिति । देहात्मा देहः-शरीरम्, आत्मा-जीवः, आदिशब्दात् मनोवाक्कायादिषु आत्मा अयम् इत्यविवेकः सर्वदा-सर्वकालं सुलभःसुप्राप्यः भवे-संसारे । तद्भेदविवेक:-तस्य शरीरात्मनोः भेदविवेकःभिन्नताविवेचनरूपः भवकोट्यापि अतिदुर्लभः-दुष्प्रापः अनादिकालैकत्वगृहीतपरभावात्मनोः स्वस्वलक्षणभेदेन भेदज्ञानमतिदुर्लभम् । सम्यग्दृष्टिरेव भेदज्ञानं करोति आत्मन्यात्मत्वनिश्चयः दुर्लभः । उक्तं च समयप्राभृते
[66] सुदपरिचिदाणुभूता, सव्वस्सवि कामभोगबंधकहा । एगत्तस्सुवलंभो णवरि ण सुलहो विहत्तस्स ॥४॥
आत्मा ज्ञानानन्दमयः, परभावा रागादयः । तेषां विभजनरूपः आत्मस्वरूपरसिकत्वोपयोगो दुर्लभः ॥२॥ शुद्धेऽपि व्योम्नि तिमिराद्, रेखाभिर्मिश्रता यथा । विकारैर्मिश्रता भाति, तथात्मन्यविवेकतः ॥३॥
शुद्ध इति-यथा-येन प्रकारेण, शुद्ध व्योम्नि-आकाशे तिमिरात् चक्षुषि भ्रमतिमिररोगात् रेखाभिर्नीलपीतादिभिः मिश्रता-शबलता कर्बुरता दृश्यते तथा-तेनैव प्रकारेण अविवेकतः-असदुपयोगतः विकारैः -रागाद्यशुद्धाध्यवसायैः मिश्रता-एकता भाति-शोभते इति । अनादिविकारविक्रियापरिणतः दृश्यते इत्यनेन निश्चयनयेन निर्विकाराखण्डचिन्मूर्तिः तथापि परैकत्वेन विकाराङ्कितो भासते इति ॥३॥
रेननु आत्मनः परभावकर्तृत्वाभावे रेपरोपाधिजन्यविकारेण
१. आत्मत्वबुद्धिः A.D. । २. अथ व्याख्या- V.2.,B.1.2., S.M., A.D. | ३. व्योम्नि तिमिराद् रेखाभिः मिश्रता यथा विकारैः अन्येन विकारेण, एष पाठोऽधिकः । V.2., B.1.2., S.M.I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org