________________
हन्तुं जनस्य दुरितां त्वरिता त्वमेव नित्यं त्वमेव जिनशासनरक्षणाय । देवि! त्वमेव पुरुषोत्तममाननीया कामं विभासि विभया सभया त्वमेव ।।६।। तेषां मृगेश्वरगरज्वरमारिवैरिदुर्वारवारणजलज्वलनोभ्दवा भीः । उच्छृङ्खलं न खलु खेलति येषु धत्से वात्सल्यपल्लवितमम्बकमम्बिके! त्वम् ।।७।। देवि! त्वदूर्जितजितप्रतिपन्थितीर्थयात्राविधौ बुधजनाननरङ्गसङ्गि। एतत्त्वयि स्तुतिनिभाद्भुतकल्पवल्लीहल्लीसकं सकलसंघमनोमुदेऽस्तु ।।८।। वरदे! कल्पवल्लि! त्वं स्तुतिरूपे! सरस्वति! पादाग्रानुगतं भक्तं लम्भयस्वातुलैः फलैः ।।९।। स्तोत्रं श्रोत्ररसायनं श्रुतसरस्वानम्बिकायाः पुरश्चक्रे गूर्जरचक्रवर्तिसचिवः ‘श्रीवस्तुपालः' कविः। प्राप्तः प्रातरधीयमानमनघं यच्चित्तवृत्तिं सतामाधत्ते विभुतां च ताण्डवयति श्रेयःश्रियं पुष्यति ।।१०।।
va-Padmavati-kalpa, Appendix 20, p. 95.) (vi) श्रीअम्बिकादेवीस्तुति : जिनेश्वरसूरिविरचिता
देवगन्धर्वविद्याधरैर्वन्दिते जय जयामित्रवित्रासने विश्रुते । नूपुरारावसुनिरुद्धभुवनोदरे मुखरतरकिङ्किणीचारुतारस्वरे ।।१।। ॐ ह्रीं मन्त्ररूपे शिवे शङ्करे अम्बिके देवि! जय जन्तुरक्षाकरे। स्फुरत्तारहारावलीराजितोरःस्थले कर्णताटङ्करुचिरम्यगण्डस्थले ।।२।। स्तम्भिनी मोहिनी ईश उच्चाटने क्षुद्रविद्रविणी दोषनिर्णाशिनी।। जम्भिनी भ्रान्तिभूतग्रहस्फोटिनी शान्तिधृतिकीर्तिमतिसिद्धिसंसाधिनी ।।३।। ॐ महामन्त्रविद्येऽनवद्ये स्वयं ह्रीं समागच्छ मे देवि दुरितक्षयम्। ॐ प्रचण्डे प्रसीद प्रसीद क्षणं (हे) सदानन्दरूपे विधेहि क्षणम् ।।४।। ॐ नमो देवि दिव्येश्वभे भैरवे जयेऽपराजिते तप्तहेमच्छवे! । ॐ जगजननि संहारसम्मार्जनी ह्रीं कूष्पाण्डि! दिव्याधिविध्वंसिनी ।।५।। पिङ्गतारोत्पतद्भीमकण्ठीरवे नाममन्त्रेण निर्णाशितोपद्रवे। अवतरावतर रैवतगिरिनिवासिनि अम्बिके! जय जय त्वं जगत्स्वामिनी ।।६।। ह्रीं महाविघ्नसङ्घातनिर्णाशिनी दुष्टपरमन्त्रविद्याबलच्छेदिनी। हस्तविन्यस्तसहकारफललुम्बिका हरतु दुरितानि देवी! जगत्यम्बिका ।।७।। इति श्रीजिनेश्वरसूरिभिरम्बिका भगवती शुभमन्त्रपदैः स्तुता। प्रवरपात्रगता शुभसम्पदं वितरतु प्रणिहन्त्वशिवं मम ।।८।। (From Bhairava-Padmavati-kalpa, Appendix, 21, p. 96.)
Ambika 153