________________
अम्बे! दत्तावलम्बे! त्वं मादृशां भव नित्यशः । श्रीधर्मकल्पलतिके! प्रसीद वरदेऽम्बिके! ।। ___ॐ ह्रीं आम्रकूष्माण्डिनि! ह्स्क्ल्ह्रीं नमः । अयं मूलमन्त्रः । द्वादशसहस्राणि रक्तकणवीरकुसुमैर्जापः, द्वादशांशेन होमः। जपापुष्पमध्याद् द्वादशशतानि छायाशुष्काणि कृत्वा गुग्गुल-दधि-दुग्ध-मधु-घृतमिश्रो होमस्त्रिकोणकुण्डे देयः बदरीपलाससमिधैः ।
ॐ ह्रीं आम्रकूष्माण्डिनि! सर्वाङ्गसुन्दरि! इवीं क्ष्वीं नमः । अयमपि तथैव साध्यः । ॐ ह्रीं आम्रकूष्माण्डिनि! सर्वाङ्गसुन्दरि! इवीं क्ष्वी स्वप्नान्तरदेशं कुरु कुरु स्वाहा । षट् सहस्राणि जापः अम्बिकामूर्तेः पुरतो भोगं कृत्वा सुप्यते चिन्तिताभिप्रायेण स्वप्नं स्यात्।
ऐं ह्स्क्ल्ह्रीं ह्सौँ नमः । सहस्र ३ जापः रक्तध्यानेन मञ्जिष्ठाऽरुणवसनां स्वर्णाभरणभूषिताङ्गी सिंहारूढाम् अङ्गलीलग्नैकडिम्भाम् अङ्कस्थद्वितीयडिम्भां हेमवर्णां चतुर्भुजां उपरितनवामकराङ्कुशाम् उपरितनदक्षिणकरात्ताम्रलुम्बीम् अधस्तनदक्षिणकरबीजपूराम् अधस्तनवामकरपाशां देवीमम्बिकां ध्यायेत् एकेनैवासने (न) जपः कार्यः । रक्तध्यानेन विशिष्टफलमफलं रागवश्यादि स्वप्नोपदेशश्च। ___ॐ ह्रीं कूष्माण्डिनि! कनकप्रभे! सिंहमस्तकसमारूढे! जिनधर्मसुवत्सले! महादेवि! मम चिन्तितकार्येष शभाशभं कथय कथय अमोघवागीश्वरि! सत्यवादिनि! सत्यं दर्शय दर्शय स्वाहा।
अम्बिकामन्त्रः सत्प्रत्ययः । ॐ ह्रीं अम्बिके! हाँ ह्रीं ह्रां ह्रीं क्लीं ब्लू सः ह्स्क्ल्ह्रीं नमः। अयमम्बिकामन्त्रः । ॐ ह्रीं अंबा अंबालुंबि हि लुंबिया ह्रीं। १०८ षण्मासान् यावत् महाभक्त्या स्मरेत् । पुत्रं लभते ।।
ॐ ह्रीं अंबे! आँ क्राँ ह्रीं ह्रां ह्रीं क्लीं ब्लू सः ह्स्क्ल्ह्रीं नमः । इदं यन्त्रं पवित्रपट्टके यक्षकर्दमकणवीरपुष्पैर्जापो दिनसप्तकेन द्वादशसहस्राणि ततः पुरुघृतमधु खण्डमिश्रजप्तकुसुमदशांशचूर्णेन गुटिका शत १२ त्रिकोणकुण्डे होमः ततोऽम्बिका सिद्धा स्यात् । विश्वक्षोभण-स्त्र्याकर्षण-पात्रावतार-स्वप्नदेशसिद्धिर्मुद्गलादिग्रहनिग्रहं च विदधाति ।
अन्यदपि हितं सम्पादयति । ___ॐ आकाशगामिनि नगरपुरपाटनक्षोभिणि! रायराणासामन्तमोहिनि! ॐ अम्बिकादेवि! ह्रीं फट् स्वाहा।
जातिपुष्पैः सहस्त्राणि १० जापः इति पूर्वसेवा । नित्यं च वार २१ जापः वार ३ थूकमन्त्री वामकनिष्ठया पुण्ड्रं सभावश्यम्। ___ॐ आकाशगामिनि! नगरपुरपाटणक्षोभिणि! रायराणाअमात्यवशीकरणी ॐ ह्रीं अम्बिके! हूं फट् स्वाहा । २१ स्मरणा ।
ॐ ह्रीं अम्बिके! उज्जयन्तनिवासिनि! सर्वकल्याणकारिणि! ह्रीं नमः । स्मरणा। ____ॐ ह्रीं सिद्धमात अम्बिके! मम सर्वसिद्धिं देहि दहि ह्रीं नमः। सदा स्मरणा कार्या ।
ॐ क्लीं हर हर ठः ठः सर्वदुष्टान् वशीकुरु कुरु त्रिपुरक्षोभिनि! त्रिपुरवशीकरणि! ॐ ह्रीं अम्बिके! स्वाहा । सदा स्मरणा ।
Ambikā 151