________________
देवी विद्याधरेन्द्रासुरसुरमनुजैर्वन्द्यपादारविन्दा प्रत्यूहान्निक्षिपन्ती क्षपितकलिमला बिभ्रती विश्वरक्षाम्। जैनेन्द्र शासनं या प्रकटयति महोत्साहशक्त्या स्वभक्त्या नित्यं नाम्ना नराणां विशदशिवफला पातु मामम्बिका सा ।।७।। एवं वृत्ताष्टकेन स्तुतिमुखरमुखः संस्तुतिं यः करोति ध्यानाधीनान्तरात्मा प्रशममुपगतो नित्यमेकाग्रचित्तः । प्रातमध्ये निशायां शयनतलगतो यत्र कुत्रापि संस्थो देवी तस्य प्रकामं प्रकटयति पटुं प्रौढमम्बा प्रसादम् ।।८।। (From Bhairava-Padmavati-kalpa of Mallisena Suri, Appendix 16, Ed. K.V. Abhyankara, Ahmedabad, 1937, pp. 88-89).
(ii) श्रीअम्बिकास्तुतिः
ॐ महातीर्थरैवतगिरिमण्डने! जैनमार्गस्थिते! विघ्नभीखण्डने! । नेमिनाथाघ्रिराजीवसेवापरे! त्वं जयाम्बे! जगज्जन्तुरक्षाकरे! ह्रीं महामन्त्ररूपे! शिवे! शङ्करे! देवि! वाचालसत्किङ्किणीनूपुरे! । तारहारावलीराजितोरःस्थले! कर्णताटङ्करुचिरम्यगण्डस्थले! अम्बिके! ह्रां स्फुरद्वीजविद्ये! स्वयं ह्रीं समागच्छ मे देहि दुःखक्षयम्। हां हूँ तं द्रावय द्रावयोपद्रवान् ह्रीं द्रहि क्षुद्रसभकण्ठीरवान् क्ली प्रचण्डे? प्रसीद प्रसीद क्षणं ब्लू सदा प्रसन्ने! विधेहीक्षणम् । सः सतां दत्तकल्याणमालोदये! ह्स्क्ल्ह्रीं नमस्तेऽम्बिकेऽङ्कस्थपुत्रद्वये इत्थमद्भूतमाहात्म्यमन्त्रस्तुते! क्राँ समालीढषट्कोणयन्त्रस्थिते! ह्रींयुतेऽम्बे! मरुन्मण्डलालङ्कृते! देहि मे दर्शनं ह्रीं त्रिरेखावृते! नाशिताशेषमिथ्यादृशां दुर्मदे! शान्तिकीर्तिद्युतिस्वस्तिसिद्धिप्रदे! दुष्टविद्याबलोच्छेदनप्रत्यले! नन्द नन्दाम्बिके! निश्चले! निर्मले! देवि! कूष्माण्डि! दिव्यांशुके! भैरवे! दुःसहे दुर्जये! तप्तहेमच्छवे! नाममन्त्रेण निर्णाशितोपद्रवे! पाहि मांमध्रिपीठस्थकण्ठीरवे! देवदेवीगणैः सेविताङ्घ्रिद्वये जागरूकप्रभावैकलक्ष्मीमये! पालिताशेषजैनेन्द्रचैत्यालये! रक्ष मां रक्ष मां देवि! अम्बालये!
Ambika 149