________________
विदिताशेषशास्त्रोऽपि न जाग्रदपि मुच्यते । देहात्मदृष्टिातात्मा सुप्तोन्मत्तोऽपि मुच्यते ॥९४॥ यत्रैवाहितधीः पुंसः, श्रद्धा तत्रैव जायते । यत्रैव जायते श्रद्धा, चित्तं तत्रैव लीयते ॥९॥ यत्रानाहितधीः पुंसः श्रद्धा तस्मानिवर्त्तते । यस्मानिवर्तते श्रद्धा, कृतश्चियत्तस्य तल्लयः ॥१६॥ भिन्नात्मानमुपास्यात्मा, परो, भवति तादृशः । वर्तिीपं यथोपास्य, भिन्ना भवति तादृशी ॥१७॥ उपास्यात्मानमेवात्मा, जायते परमोऽथवा । मथित्वाऽऽत्मानमात्मैव, जायतेऽग्निर्यथा तरुः ॥९॥ इतीदं भावयेन्नित्यमवाचांगोचरं पदम् । स्वतएव तदाप्नोति, यतो नावर्त्तते पुनः ॥१९॥ अयत्नसाध्यं निर्वाणं, चित्तत्त्वं भूतजं यदि । अन्यथा योगतस्तस्मात्र, दुःखं योगिनां क्वचित् ॥१०॥ स्वप्ने दृष्टे विनष्टेऽपि, न नाशोऽस्ति यथात्मनः। तथा जागरदृष्टेऽपि, विपर्यासाविशेषतः॥१०१॥ अदुःखभावितं ज्ञानं, क्षीयते दुःखसनिधौ । तस्माद्यथाबलं दुःखैरात्मानं भावयेन्मुनिः ॥१०२॥ प्रयत्नादात्मनो वायुरिच्छाद्वेषप्रवर्त्तितात् ।। वायोः शरीरयंत्राणि, वर्तन्ते स्वेषु कर्मसु ॥१०३॥ तान्यात्मनि समारोप्य, साक्षाण्यास्तेऽसुखं जडः । त्यक्त्वाऽरोपं पुनर्विद्वान्, प्राप्नोति परमं पदम् ॥१०४॥ मुक्त्वा परत्र परबुद्धिमहंधियं च, संसारदुःखजननी जननाद्विमुक्तः। ज्योतिर्मयं सुखमुपैति परात्मनिष्ठ - स्तन्मार्गमेतदधिगम्य समाधितन्त्रम् ॥१०॥
૩૨૬
આતમ ઝંખે છુટકારો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org