________________
तथैव भावयेद् देहाद् व्यावृत्यात्मानमात्मनि । यथा न पुनरात्मनं, देहे स्वप्नेऽपि योजयेत् ॥ ८२ ॥ अपुण्यमव्रतैः पुण्यं व्रतैर्मोक्षस्तयोर्व्ययः । अव्रतानीव मोक्षार्थी, व्रतान्यपि ततस्त्यजेत् ॥ ८३ ॥
>
अव्रतानि परित्यज्य, व्रतेषु परिनिष्ठितः । त्यजेत्तान्यपि संप्राप्य, परमं पदमात्मनः ॥ ८४ ॥
यदन्तर्जल्पसम्पृक्तमुत्प्रेक्षाजालमात्मनः । मूलं दुःखस्य तन्नाशे, शिष्टमिष्टं परं पदम् ॥८५॥ अव्रती व्रतमादाय, व्रती ज्ञानपरायणः । परात्मज्ञानसम्पन्नः, स्वयमेव परो भवेत् ॥ ८६ ॥ लिङ्गं देहाश्रितं दृष्टं, देह एवात्मनो भवः । न मुच्यन्ते भवात्तस्मात्ते ये लिङ्गकृताग्रहाः ॥८७॥ जातिर्देहाश्रिता दृष्टा, देह एवात्मनो भवः । न मुच्यन्ते भवात्तस्मात्ते ये जातिकृताग्रहाः ॥८८॥ जातिलिंगविकल्पेन, येषां च समयाग्रहः । तेऽपि न प्राप्नुवन्त्येव परमं पदमात्मनः ॥ ८९ ॥ यत्त्यागाय निवर्त्तन्ते, भोगेभ्यो यदवाप्तये । प्रीतिं तत्रैव कुर्वन्ति, द्वेषमन्यत्र मोहिनः ॥ ९०॥
अनन्तरज्ञः सन्धत्ते, दृष्टि पङ्गोर्यथाऽन्धके । संयोगात् दृष्टिमङ्गेऽपि, संधत्ते तद्वदात्मनः ॥९१॥
दृष्टिभेदो यथा दृष्टि पङ्गोरन्धे न योजयेत् । तथा न योजयेद्देहे, दृष्टात्मा दृष्टिमात्मनः ॥९२॥
सुप्तोन्मत्ताद्यवस्थैव, विभ्रमोऽनात्मदर्शिनाम् । विभ्रमोऽक्षीणदोषस्य, सर्वावस्थाऽऽत्मदर्शिनः ॥९३॥
३२४
Jain Education International
For Private & Personal Use Only
આતમ ઝંખે છુટકારો
www.jainelibrary.org