________________
अचेतनमिदंदृश्यमदृश्यं चेतनं ततः। क्वरुष्यामिक्वतुष्यमि, मध्यस्थोऽहं भवाम्यतः ॥४६॥ त्यागादाने बहिर्मूढः, करोत्यध्यात्ममात्मवित् । नान्तर्बहिरुपादानं, न त्यागो निष्ठितात्मनः ॥४७॥ युजीत मनसाऽऽत्मानं, वामयाभ्यां वियोजयेत् । मनसा व्यवहारं तुं, त्यजेद्वाशययोजितम् ॥४८॥ जगद्देहात्मदृष्टिना, विश्वास्यं रम्यमेव वा। स्वात्मन्येवात्मदृष्टिनां क्व विश्वासः क्व वा रतिः ॥४९॥ आत्मज्ञानात्परं कार्यं न बुद्धौ धारयेचिरम् । कुर्यादर्थवशात्किंचिदाक्कायाभ्यामतत्परः ॥५०॥ यत्पश्यामीन्द्रियैस्तन्मे, नास्ति यत्रियतेन्द्रियः । अन्तःपश्याभि सानन्दं, तदस्तु ज्योतिरुत्तमम् ॥५१॥ सुखमारब्धयोगस्य, बहिर्दुःखमथात्मनि । बहिरेवासुखं सौख्यमध्यात्म भावितात्मनः ॥५२॥ तब्रुयात्तत्परान्पृच्छेत्तदिच्छेत्तत्परो भवेत् । येनाऽविद्यामयं रूपं, त्यक्त्वा विद्यामयं व्रजेत् ॥५३॥ शरीरे वाचि चात्मानं, संधत्ते वाक्शरीरयोः । भ्रान्तोऽभ्रान्तः पुनस्तत्त्वं, पृथगेषांनिबुध्यते ॥५४॥ न तदस्तीन्द्रियार्थेषु, यत् क्षेमङ्करमात्मनः । तथापि रमते बालस्तत्रैवाज्ञानभावनात् ॥५५॥ चिरं सुषुप्तास्तमसि, मूढात्मानः कुयोनिषु । अनात्मीयात्मभूतेषु, ममाहमिति जाग्रति ॥५६॥ पश्यनिरंतरं देहमात्मनोऽनात्मचेतसा । अपरात्मधियाऽन्येषामात्मतत्त्वे व्यवस्थितः ॥५७॥
૩૧૮
આતમ ઝંખે છુટકારો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org