SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ यद्यपि भगवत्या नव कोटयः = पर्यायास्तथापि स्थानाशून्यार्थं योगिनीदोषविघातमन्त्रगर्भाणि कतिपयनामान्याह-मायेति । माया कुण्डलिनी क्रिया मधुमती काली कलामालिनी मातङ्गी विजया जया भगवती देवी शिवा शाम्भवी । शक्तिः शङ्करवल्लभा त्रिनयना वाग्वादिनी भैरवी ह्रीं कारी त्रिपुरा परापरमयी माता कुमारीत्यसि ॥१८॥ व्याख्या—अत्र सामान्यतस्तावच्चतुर्विंशतिभगवतीनामानि कथितानि सन्ति तानि च पाठमात्रसिद्धानीति न पुनः प्रयास इति । विशेषतस्तु चतुष्पष्टियोगिनीनामत्र काव्ये गूढोक्तो मन्त्रोऽप्यस्ति । तत्र मायाशब्देन मायाबीजं ही कारः । मालिनीति मा लक्ष्मीस्तद्बीजं श्रीकारः । कालीति कव्यञ्जनेन सहिता लीति काली तेन क्ली इति सिद्धम् । बिन्दूच्चारणविभागो ज्ञेयः । शक्तिरिति शक्तिबीजं सौं । वाग्वादिनीत वाग्बीजम् ऎकारः, इति पञ्चबीजानि जातानि, आदौ प्रणवोऽन्ते च नमः इदं सर्वसामान्यं ज्ञेयम् । न्यासे पुनरयमक्षरक्रमः । यथा ॐ ऐं ह्रीं श्रीं क्लीं सौं नमः । एतस्याम्नायस्य पूर्वसेवायां जापः अष्टोत्तरसहस्रं १००८ प्रतिदिनमष्टोत्तरशतं वा जापे सुखमारोग्यं वश्यता समृद्धिर्बन्दीमोक्षश्च फलम् । ध्यानन्तु शान्ते कार्ये श्वेतम्, वश्ये रक्तम्, मोहने पीतम्, उच्चाटने कृष्णं ज्ञेयम् । इयन्तु योगिनीनां विद्या अतस्तत्प्रसङ्गेन योगिनी-दोषविघातकयन्त्रमपि भक्तोपकाराय प्रकाश्यते । तासां नामानि चैतानि-ब्रह्माणी, १. कुमारी, २. वाराही, ३. शाङ्करी, ४. इन्द्राणी, ५. कङ्काली, ६. कराली, ७. काली, ८. महाकाली, ९. चामुण्डा, १०. ज्वालामुखी, ११. कामाख्या, १२. कपालिनी, १३. भद्रकाली, १४. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001966
Book TitleTripurabharatistav
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Devotion, & Worship
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy