________________
७३
पञ्जिकानामविवृतिः इदानीं एतत्स्तोत्रस्य पाठमात्रे माहात्म्यमाहसावधं निरवद्यमस्तु यदि वा किं वानया चिन्तया नूनं स्तोत्रमिदं पठिष्यति जनो यस्यास्ति भक्तिस्त्वयि । सञ्चिन्त्यापि लघुत्वमात्मनि दृढं सञ्जायमानं हठात्त्वद्भक्त्या मुखरीकृतेन रचितं यस्मान्मयापि ध्रुवम् ॥२१॥
यतो यस्यास्ति भक्तिस्त्वयि सञ्चिन्त्यापि लघुत्वमात्मनि दृढं सञ्जायमानं हठात्, एतत् स्तोत्रं सावधं दूष्यं निरवद्यमदूष्यं वा अस्तु । अनया दूष्यादृष्यस्य स्तवस्य चिन्तया वा किं कार्यं न किमपीत्यर्थः । अहो विश्वस्वामिनि ! यस्य कस्यापि जनस्य त्वयि विषये भक्तिरस्ति परमभावो विद्यते, स यतो निश्चितमिदं पूर्वोपन्यस्तं पाठमात्रेणोच्चारयिष्यति । पूजाध्यानादिक्रिया तावत् परतोऽस्तु । तस्यापि चिन्तितार्थप्राप्तिर्भविष्यतीत्यर्थः । इदानीं कविः स्वभणितं दृष्टान्तोपन्यासेन दृढयति-यस्मात् कारणात् ध्रुवं = निश्चितं मया = मूर्खेणापि, एतेन अबोद्धव्यकथनम्, मया स्तवनमिदं गुम्फितम् । तहि सुबोधं भविष्यतीत्याहत्वद्भक्त्या मुखरीकृतेन, किं कृत्वा ? हठात् = बलात्कारेण सञ्जायमानं विस्फुरद् आत्मनि विषये दृढं दुर्निवारं लघुत्वं सारस्वतं स्फुरितं सञ्चिन्त्य इति ॥२१॥
इति लघ्वाचार्यविरचितस्य त्रिपुराभारतीस्तवस्य पञ्जिका सम्पूर्णा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org