________________
७४१
सप्ततिका-चूलिका ओघो वेदप्रयेऽप्यस्ति यावदेकाप्रविशतेः । बन्धकोऽस्त्यनिवृत्ताख्यः सन्त्यवेदास्ततोऽपरे ॥५६॥
एवं वेदमार्गणा समाप्ता। क्रुन्मानवञ्चनालोभेष्वोघो मिथ्यागादिषु । तावद्यावत्त बन्धान्तमनिवृत्तौ क्रमेण तु ॥५७॥
इति चतुःकषायाणां सामान्येन १२० । विशेषेण कोधमानमायाकषायाणां यथाक्रमं मिथ्यादृष्टिप्रभृति यावदेकविंशति-विंशत्येकानविंशत्यष्टादशबन्धकानिवृत्तयः तावदोघभङ्गः । लोभकषायिणां सूचमसाम्परायचरमसमयं यावत्तावदोघः । अकपायिणामप्युपशान्तक्षीणसयोगायोगानामोघः ।
एवं कषायमार्गणा समाप्ता। अज्ञानत्रितयेऽन्योघो मिथ्यादृक-सासनाख्ययोः । नवस्वसंयतायेषु वोघो मत्यादिकत्रिके ॥५॥ स्यान्मनःपर्ययेऽप्योधः प्रमत्तादिषु सप्तसु । केवलस्याप्यथौधः स्याजिनयोर्योग्ययोगयोः ॥५६॥
इति सामान्यमत्यज्ञानि-श्रताज्ञानि-विभङ्गज्ञानिषु ११७ । मिथ्यादृष्टी ११७ । सासने १०१ । शेषं सुगमम् ।
एवं ज्ञानमार्गणा समाप्ता । ओघः सामायिकाख्यस्य छेदोपस्थापनस्य च । आये यतिचतुष्केऽस्ति परिहारस्य चाद्ययोः ॥६०॥ सूचमवृत्तस्य सूचमाख्येऽथाख्यातस्य चतुर्वतः । देशाख्ये देशवृत्तस्यासंयमस्य चतुष्टये ॥६१॥
एवं संयममार्गणा समाप्ता । द्वादशस्वादिमेष्वोघो दृष्टश्चक्षुरचक्षुषोः । स्यादोघोऽवधिरऐश्च नवस्वसंयतादिषु ॥६२॥ ओघः केवलदृष्टश्च भवेत्केवलिनो द्वये।
इति दर्शनमार्गणा समाप्ता।
कृष्णा नीलाऽथ कापोता लेश्यात्रितयमादिमम् ॥६३॥ भाद्यलेश्यानयोपेता बध्नन्त्याहारकद्वयम् । त्यक्त्वान्यास्तीर्थकृत्वोनास्तासु मिथ्याहगाह्वयाः ॥६४॥ सासनाः पोडशोनास्ता मिश्राह्वाः पञ्चविंशतिः । नरदेवायुषी चाभ्यस्त्यक्त्वा बध्नन्ति चापराः ॥६५॥ तीथकृन्नरदेवायुः संयुक्तास्तास्वसंयताः। तेजोलेश्यासु बध्नन्न्यपर्याप्तं विकलत्रयम् ॥६६॥ श्वभ्रायुः श्वभ्रयुग्मं च सूचमं साधारणं तथा । त्यवत्वान्या वामहष्टिस्तास्तीर्थाहारद्वयोनिताः ॥६७।
इति कृष्णनीलकापोतलेश्याः सामान्येन ११८ । मिथ्यादृष्टयः ११७ । सासनाः १०१। मिश्राः ७४ । असंयताः ७७ । तेजोलेश्याः सामान्येन १११ । मिथ्यादृष्टयः १०८। हुण्डासम्प्राप्तमिथ्यात्वस्थावरैकेन्द्रियातपान् । पण्ढं चाभ्योऽपि मुक्त्वाऽन्या बध्नन्ति सासनाभिधाः ॥६८।।
१०१। पञ्चस्वतो भवेदोघः सम्यग्मिथ्यागादिषु ।
पञ्चस्वोधः ७४१७७।६७।६३१५६ ।
पद्मलेश्यास्त्वबध्नन्ति श्वभ्रायुर्निरयद्वयम् ॥६६॥ सूचमसाधारणकाक्षस्थावरं विकलत्रयम् । तथाsतपसपर्याप्तं त्यक्त्वाऽन्याः शतमष्टयुक् ॥७०॥
सामान्यपनलेश्याः १०० । मिथ्याशस्तु तास्तीर्थकराहारद्वयोनिताः । हुण्डासम्प्राप्तमिथ्यात्वषण्ढोनास्तासु सासनाः ॥७॥
मिथ्यादृशः १०५ । सासनाः १०१। पञ्चस्वती भवेदोघः सम्यग्मिथ्यागादिषु । शुक्ललेश्यासु बध्नन्ति स्थावरं विकलत्रयम् ॥७२॥ तिर्यक-श्वभ्रायुषो सूचमापर्यान्ते नरकद्वयम् । साधारणातपोद्योतां तिर्यग्द्वयमेकेन्द्रियम् ॥७३॥
१. अवेदा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org