________________
शतकाख्यः पञ्चमः संग्रहः
.११
स्थानं दश नवाष्टौ च सप्त षट पच मोहने । चतुष्कं द्वयमेकं च सामान्यानवधोदये ॥२७॥
2018मा७१६५।४।२।१ मिथ्या क्रोधाश्च चत्वारोऽन्ये वा वेदो विकल्पतः । हास्यादियुग्मयोरेकं भीर्जुगुप्सा दशोदये ॥२८॥ मिथ्यात्वमाहाकोपादीन् द्वितीयांस्तत्परान् त्यजेत् । भीयुगैकतरं द्वे च हासादीन् वेदगं त्रयम् ॥२६॥
अत्र श्लोकार्थः-मिथ्यात्वमेकं अनन्तानुबन्ध्यप्रत्याख्यान-प्रत्याख्यान-संज्वलनाख्याः चत्वारः क्रोधाः, चत्वारो वा मानाः, चतस्रो वा मायाः, चत्वारो वा लोभा इति चत्वारः कषायाः ४ । विष्वेकतरो वेदः १ हास्यरती अरतिशोकावित्येकतरं युग्मम् २ । भयं १ जुगुप्सा च १ इति दशोदयस्थानम् १०। द्वाविंशतिबन्धस्थाने मिथ्यादृष्टः १० । अस्माच्च दशोदयस्थानात् मिथ्यात्वे त्यक्ते नवोदयस्थानमेकविंशतिबन्धस्थाने सासनस्य है । एतदेवानन्तानुबन्धिचतुष्कोनं शेषवतुष्कत्रयस्य त्रयः क्रोधा माना माया लोभा वा, इति प्रयः कषायाः ३ । वेदैकतरादिभिश्च पञ्चभिः सहाष्टोदयस्थानं सप्तदशबन्धस्थाने सम्यग्मिध्यादृष्टः] असंयतसम्यग्दृष्टेरौपशमिकसम्यग्दृष्टः क्षायिकसम्यग्दृष्टेश्च । एतदेव द्वितीयकोपाद्यनं शेषचतुष्कद्वयस्य द्वौ क्रोधी मानौ माये लोभी चेति द्वौ कषायौ । वेदैकतरादिभिश्च पञ्चभिः सह सप्तोदयस्थानं त्रयोदशबन्धस्थाने देशसंयतस्यौपशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टश्च । एतदेव तृतीयकोपायुनं चतुणां संज्वलनानामेकतरेण वेदैकतरादिभिः पञ्चभिः सह षडुदयस्थानं नव बन्धस्थाने औपशमिकसम्यग्दृष्टीनां क्षायिकसम्यग्दृष्टीनां च प्रमत्ताप्रमत्तापूर्वाणाम् ६ । एतदेव भय जुगुप्सयोरेकतरेण विना पञ्चोदयस्थानं प्रमत्तादिष्वेव । अस्य द्वौ भङ्गौ ५.५। एतदेव भय जुगुप्साभ्यां द्वाभ्यामपि हीनं प्रमत्तादीनामेव चतुरुदयस्थानम् ४। एषाम्चैकैकस्य दशायुदयस्थानस्य चतुभिः कषायैः त्रिभिर्वेदैः युगलाभ्यां गुणितस्य चतुर्विंशतिभङ्गाः २४ । ततः सवेदानिवृत्तौ हास्यादिभिविना चतुर्णा संज्वलनानामेकतरेण त्रिवेदैकतरेण च द्विकमुदयस्थानम् २। अस्य च द्वादश मङ्गाः १२ । तथाऽनिवृत्तेरेव चतुर्विधबन्धस्थाने द्वे उदयस्थाने द्वावेकश्च । तत्राद्येऽपूर्ववद् द्वादश भङ्गाः १२ । द्वितीये चावेदानिवृत्तौ वेदैविना चतुर्णा संज्वलनानामेकतरेणकमुदयस्थानम् । अस्य चत्वारो भङ्गाः ४ । त्रिविधबन्धस्थाने क्रोधवर्जत्रिसंज्वलनानामेकतरेणैकमुदयस्थानम् । अस्य त्रयो भङ्गाः ३ । द्विविधबन्धस्थाने क्रोधमानवजद्विसंज्वलनयोरेकतरणकमुदयस्थानम् । अस्य द्वौ भनौ २। एकविधबन्धके लोभसंज्वलनेनैकमुदयस्थानम् । अस्यैको भङ्गः । अबन्धके सूचमलोभसंज्वलनेनैकमुदयस्थानम् । एक एव भङ्गः १ । विंशतिस्त्वष्टसप्ताग्राः षट्चतुस्त्रिद्विकैकयुक । तथा त्रयोदशातोऽपि द्वादशैकादशोऽप्यतः ॥३०॥ सत्त्वे पञ्च चतुस्विद्वय के स्थानानीति मोहने । सन्ति पञ्चदशातः स्युर्भङ्गा बन्धादिगोचराः ॥३१॥
२८।२७।२६।२४॥२३॥२२॥२॥१३।१२।११।५।४।३।२।। मोहे स्युः सत्तया सर्वाः विंशतिः सप्त-षड्-युताः । उद्वेल्लितेति सम्यक्त्वे सम्यग्मिथ्यात्व एव च ॥३२॥
मिथ्यादृष्टौ २८।२७।२६। क्षपितेष्वाद्यकोपादिष्वष्टाविंशतितः पुनः । मिथ्यात्वे मिश्रके च स्युः सम्यक्त्वेऽष्टकषायके ॥३३॥ नपुसके स्त्रियां हास्यादिपट के पुरुष क्रमात् । क्रोधे संज्वलने माने मायायामपराणि तु ॥३४॥
एवं शेपाणि सत्तास्थानानि २४।२३।२२।२।।१३।१२।११।५।४।३।२।। भङ्गाःद्वाविंशतेः पट स्युश्चत्वारश्चैकविंशतेः । स्थानेषु विष्वतो द्वौ द्वावेकोऽतो मोहबन्धने ॥३५॥
६।४।२।२२।१।११।११ पञ्चस्वायेषु बन्धेषु पञ्च पाका दशादिकाः । द्वौ परे द्विकभेको वाऽन्यत्रान्येष्वेक एव च ॥३६॥ बं० २२ २१ १७ १३ है .
बं० .. अनिवृत्ती उ० १० १ ८ ७ ६ जान उ०२ २ १ १ १ सूपम उ० १ आद्येऽनन्तानुबन्ध्यूनोऽन्योऽन्यौ सप्तदशेऽपि तौ। मिश्र-सम्यक्त्वयुक्तौ स-सम्यक्त्वौ चोदयौ द्वयोः ॥३७॥
बं० २२ २१ १७ १३ ॥ उ० १०६ ६ ६८ ८७ ७१६
१. बन्धस्थाने । २. अनन्तानुबन्धिसहितः । ३. उदयभनौ । ४. मिश्राविरतयोः। ५. बन्धस्थानयोः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org