________________
संस्कृत-पञ्चसंग्रह
श्वभ्रतियङनदेवानामेकं पन्च त्रिपन्च तु । क्रमेण गतियुक्तानि बन्धस्थानानि नामनि ॥१२५॥
५।३।५। । तत्र श्वभ्रद्वयं हुण्डं निर्माणं दुर्भगास्थिरे । पन्चेन्द्रियमनादेयं दुःस्वरं चायशोऽशुभम् ॥१२६॥ असन्नभोगतिस्तेजः कार्मणं विक्रियद्वयम् । वर्णाद्यगुरुलध्वादिवसादि च चतुष्टयम् ॥१२७॥ इत्यष्टाविंशतिस्थानमेकं मिथ्यात्वसंयुजः । श्वभ्रतिपूर्णपन्चायुक्तं बध्नन्ति देहिनः ॥१२८॥
भङ्गः । अत्र नरकगत्या सह वृत्यभावादेकाक्षविकलाइजातयो न बध्यन्ते । दशभिनवभिः पड्भिः पञ्चभिर्विंशतिस्त्रिभिः । युक्तस्थानानि पञ्चैव तिर्यग्गतियुतानि तु ॥२९॥
३०२६।२६।२५।२३ । तत्राद्या त्रिंशदुद्योततिर्यद्वितयकार्मणे । तेजः संहति-संस्थानपटकस्यैकतरद्वयम् ॥१३०॥ नभोगतियुगस्यैकतरमौदारिकद्वयम् । वर्णाद्यगुरुलध्वादि सादि च चतुष्टयम् ॥१३१॥ स्थिरादिषडयुगेष्वकतरं पञ्चाक्षनिर्मिती। पञ्चाक्षोद्योतपर्याप्ततियंगतियुतामिमाम् ॥१३२॥ मिथ्यादृष्टिः प्रबध्नाति बध्नात्येतां च सासनः । द्वितीयां त्रिंशतं किन्तु हुण्डासम्प्राप्तवर्जिताम् ||१३३॥
तत्र प्रथमत्रिंशति पटसंस्थान-पटसंहनन-नभोगतिगस्थिरादिषडयुगलानि ६।६।२।२।२२।२।२।२। अन्योन्याभ्यस्तानि भङ्गाः ४६०८ ।
द्वितीयविंशति सासनेऽन्तिमसंस्थान-संहनने बन्धं नागच्छतस्तद्योग्यतीवसंक्लेशाभावात् । अतः ५।५।२।२।२।२।२।२।२ । अन्योन्याभ्यस्तानि भङ्गाः ३२०० । एते पूर्वप्रविष्टाः पुनरुक्ता इति न गृह्यन्ते । तत्र त्रिंशतृतीयेयं तिर्यद्वितयकार्मणे । तेजश्चौदारिकद्वन्द्वं हुण्डासम्प्राप्तदुर्भगम् ॥१३४॥ . त्रसाद्यगुरुलध्वादिवर्णादिकचतुष्टयम् । विकलत्रितयस्यैकतरं दुःस्वरमेव च ॥१३५।। यशःस्थिरशुभद्वन्द्वत्रिकस्यैकतरत्रयम् । निर्माणं चाप्यनादेयमुद्योतोऽसन्नभोगती ॥१३६॥ बध्नात्येतां मिथ्याहक पर्याप्तोद्योससंयुताम् । विकलेन्द्रियसंयुक्तां तिर्यग्गतियुतामपि ॥१३७॥
अत्र तृतीयत्रिंशति विकलेन्द्रियाणां हुण्डसंस्थानमेकमेव । तथैतेषां बन्धोदययोः दुःस्वरमेवेति । तिम्रो जातयस्त्रीणि युगलान्यन्योन्याभ्यस्तानि ३।२।२।२ । भङ्गाः २४ ।। तिस्रो हि त्रिंशतो यद्वदेकानप्रिंशतस्तथा । तिम्रो विशेष एतासु यदुद्योतो न विद्यते ॥१३८॥
एतासु पूर्वोक्ता भङ्गाः ४६०८।२४ षड्विशतिरियं तत्र तिर्यद्वितयकार्मणे । तेज औदारिकैकाक्षे हुण्डं पर्याप्तबादरे ॥१३॥ निर्मिच्चागुरुलध्वादिवर्णादिक चतुष्टयम् । शुभस्थिरयशोद्वन्द्वष्वकैकमथ दुर्भगम् ॥१४०॥ आतपोद्योतयोरेकं प्रत्येकं स्थावरं तथा अनादेयं च बध्नाति मिथ्यादृष्टिरिमामपि ॥१४१॥ सतिर्यग्गतिमेकाक्षपूर्णबादरसंयुताम् । तथैकतरसंयुक्तामातपोद्योतयोरपि ॥१४२।।
तत्र षड्विंशतावेकेन्द्रियेष्वङ्गोपाङ्गं नास्ति, अष्टाङ्गाभावात् । संस्थानमप्येकमेव हुण्डम् । आतपोद्योत-स्थिास्थिर-शुभाशुभ-यशो-ऽयशोयुगानि २।२।२२ अन्योन्यगुणानि भङ्गाः १६ । पड्विशतिर्विनोद्योतातपाभ्यां पञ्चविंशतिः । तस्यैवैकतरोपेताः सूचम-प्रत्येकपुग्मयोः ॥१४३॥
अत्र प्रथमपञ्चविंशती सूचम-साधारणे भावनादीशानान्ता देवा न बध्नन्ति । तेन यशाकीर्ति निरुध्य स्थिरास्थिरभङ्गो शुभाशुभभङ्गाभ्यां गुणितौ ४ । अयश कीर्ति निरुध्य बादर-प्रत्येकस्थिरशुभयुगानि २।२।२।२ अन्योन्यगुणान्ययशःकीर्तिभङ्गाः १६ । द्वयेऽपि २० । पञ्चविंशतिरत्रान्या तिर्यद्वितयकार्मणे । पञ्चाक्षविकलातैकतरमौदारिकद्वयम् ॥१४४॥ तेजोऽपर्याप्त निर्माणे प्रत्येकागुरुलध्वपि । उपघातायशो हुण्डास्थिरासम्प्राप्तदुर्भगम् ॥१४५॥ वसं स्थूलं च वर्णाद्यनादेयमशुभं त्विमाम् । सतियग्गत्यपर्याप्तत्रसां बन्धोति वामदृक् ॥४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org