SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ कर्मस्तदाख्यः तृतीयः संग्रहः विक्रियाषट्कमाहारद्वयं श्वभ्रामरायुषी । तीर्थकृच्चैव बध्यन्ते एकादश परोदयात् ॥ ७४ ॥ अत्र एताः परोदयेन बध्यन्ते, बन्धोदययोः समानकाले वृत्तिविरोधात् । ज्ञानावृत्यन्तरायस्था दश तैजसकार्मणे । शुभस्थिरयुगे वर्णचतुष्कं दृक्चतुष्टयम् ॥ ७५ ॥ निर्माणागुरुलध्वाह्न मिथ्यात्वं सप्तविंशतेः । बन्धः स्यात्स्वोदयाच्छेषद्वयशीतेः स्व-परोदयात् ॥ ७६ ॥ २७॥ द्व े वेद्ये पञ्च ग्रोधाः कषायाः पञ्चविंशतिः । षट्के संस्थान - संहत्योर्नृद्वयौदारिकद्वये ||७७॥ तिर्यङ्नरायुषी तिर्यग्द्वयोद्योतौ नभोगती । परघातात पोच्छ्रासा द्व े गोत्रे पन्च जातयः ॥ ७८ ॥ उपघातं युगान्यष्टौ शुभस्थिरयुगे विना । त्रसादीनीति बन्धः स्याद् द्वयशीतेः स्वपरोदयात् ॥७३॥ ८२ | एताः स्वोदय-परोदयाभ्यां बध्यन्ते, उभयथापि विरोधाभावात् । ज्ञानदृग्रोधविघ्नस्थाः सर्वाः सर्वे क्रुधादयः । मिथ्यात्वं भी जुगुप्सोपघातास्तै जसकार्मणे ||८०|| निर्माण गुरुलध्वाह्न वर्णादिकचतुष्टयम् । इति प्रकृतयः सप्तचत्वारिंशद् ध्रुवा इमाः ॥८१॥ ४७॥ आयुश्चतुष्टयाऽऽहारद्वयतीर्थंकरैर्युताः । चतुःपञ्चाशदासां च भवेद् बन्धो निरन्तरः ॥ ८२ ॥ ५४॥ पञ्चान्तिमानि संस्थानान्यन्त्यं संहतिपञ्चकम् । चतस्त्रो जातयोऽप्याद्याः षण्ढः स्त्रीस्थावरातपाः ॥८३॥ शोकारत्यशुभोद्योतसूक्ष्मसाधारणा यशः । अस्थिरा सन्नभोरीती दुर्भगापूर्णदुःस्वरम् ॥८४॥ श्वभ्रद्वयमनादेयासाते त्रिंशच्चतुर्युताः । बध्यन्ते सान्तरा बन्धेऽन्याः सान्तर निरन्तराः ||८५|| ३४| तिर्यद्वयं नरद्वन्द्वं पुंवेदौदारिकद्वये । गोत्रे सातं सुरद्वन्द्रं पञ्चाक्षं वैक्रियद्वयम् ॥८६॥ परघातं रतिहस्यमाद्ये संस्थानसंहती । दश प्रसादियुग्मानामाद्यान्युच्छ्राससङ्गती ॥८॥ ३२। भत्रैकं समयं बद्ध्वा द्वितीयसमये यस्याः बन्धविरामो दृश्यते, सा सान्तरा बन्धप्रकृतिः । यस्याः बन्धकालो जघन्योऽप्यन्तर्मुहूर्त्तमात्रः, सा निरन्तरा बन्धप्रकृतिः । तेनोक्तं- सान्तरो बन्ध एकसमयेन, द्वितीयसमयेन बन्धाभावात् । निरन्तरो बन्ध एक-एकसमयेन बन्धोपरमाभावात् । इति बन्धे सान्तराः ३४ ।. सान्तर निरन्तराः ३२ । वाततेजोऽङ्गिनो नोच्चं न बध्नन्ति नृजीवितम् ! सच्चे तीर्थकृतो नैति तिर्यक्त्वं न च मिश्रताम् ॥८॥ आहारद्वयतीर्थेशः सत्त्वे सासनताऽस्ति न । अशस्तवेदपाकाच' नाहारद्धिः प्रजायते ॥ ८६ ॥ पाके स्त्री- पण्ढयोस्तीर्थं कृत्सत्वे क्षपकोऽस्ति न । [ इति कर्मबन्धस्तवः समाप्तः । Jain Education International १. स्त्री- नपुंसक वेदोदयात् । ८६ 28 For Private & Personal Use Only ६८१ 118011 www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy