________________
मुहूर्तराज ]
[३
॥ ॐ ह्रीं श्रीशंखेश्वरपार्श्वनाथाय नमः ॥ ॥ श्रीमद् विजय राजेन्द्रसूरि गुरुभ्यो नमः ॥
॥ अथ गुर्वष्टकम् ॥ श्रीसिद्धः सकलर्द्धिसिद्धिसहितः पूतान्तरात्मा महान्
सर्वप्राणिषु यः क्षमामचकरत् तत्त्वार्थबुद्धो यतः । यन्नामस्मरणाद् व्रजन्ति विलयं भूयांसि पापान्यपि,
स श्रीमान् भुवि सर्वदा विजयतां राजेन्द्रसूरीश्वरः ॥१॥ यो वृद्धोऽपि गुणैः परन्तु तरुणः सोत्साहशक्त्यन्वयात्,
दिक्स्पृक्कीर्तिचयोन्नतोऽपि विनयानित्यं तु नम्रोऽभवत् । यो देहेन सुदुर्बलोऽपि बलवाँस्तीवैस्तपोभिस्ततैः,
तत्पादाम्बुजयोर्लसन्तु नितराभस्मत्प्रणामाः सदा ॥२॥ नित्यं श्रीजिनराजपूतचरणध्यानस्थितो योगिवत्,
तद्वत्तद्गुणकीर्तने सुकविवद् वाणी यदीयाऽभवत् । तद्भक्तौ विगतस्मृतिः स्ववपुषि भाजद् विदेहो यथा,
सौऽस्मभ्यं सततं ददातु सुजनप्रस्थानमार्गे मतिभ् ॥३॥ जैनोक्तानि तपांसियोऽतपदलं हित्वेन्द्रियार्थान् परान्,
स्वस्मिन् धर्मधुरं दधार धृतिमान् द्वन्द्वक्षमावान् भृशम् कामान् वामतरान् विचिन्त्य मनसा योऽभूत्सदा निःस्पृहः ।
तस्मै दिव्यतमाय बोधनिधये स्युनः शतं वन्दनाः ॥४॥ यं नेत्राध्वनियातभेव सहसाऽऽलोक्य द्विषो भूरिशः,
मित्रत्वं गतवन्त इष्टकरणेऽभूवन् तदास्थालवः । संजाताः किल नीरुजो बहुतरा येऽसाध्यरोगाकुलाः,
यं श्रित्वा तमचिन्त्यशक्तिसहितं तेजस्विनं धीमहे ॥५॥ यः स्वीयाध्यवसायतो व्यरचयत्स्फीतं सुगीतं बुधैः,
कोशं श्री अभिधानपूर्वपदकं राजेन्द्र मध्यं यतः । निर्णेतुं प्रभवन्ति तत्त्वमखिलं जैनस्य धर्मस्य वै,
सर्वे, तं प्रतिभावतारभभलं नौमो वयं सद्गुरुभ् ॥६॥ तीर्थोद्धारण इष्टयोगभददाद् धर्मप्रचारं व्यधात्,
भव्यान्सभ्यगबोधयज्जिनवचः संश्राव्य संश्राव्य यः । शिष्यान् साधुपथे प्रवृत्तचरणान् चक्रे हिताप्तोक्तिभिः ।
तस्मै सर्वकलाधराय महते दिव्याय पुंसे नमः ॥७॥ नैकग्रामपुरेषु यः किल चतुर्मासस्थितीराचरत्,
आतेने ह्य पधाननाभकतपस्यन्याश्च धाः क्रियाः । चारित्र्यास्तसमस्तकर्मनिचयः शैवं पदं चाप्तवान, सोऽस्मच्चित्तनभोऽपसारिततमा भास्वान् यथा भासताम् ॥
विनीत : पं. गोविन्दराम श्रीगौरीशंकरजी द्विवेदी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org