SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (काम्यप्रत्ययान्त) 329 ॥ श्रीमज्जिनपुङ्गवेभ्यो नमः॥ सकलस्वपरसमयपारारारपारीण-विद्यापीठादिप्रस्थानपञ्चकसमाराधकतपोगच्छाधिपतिभट्टारकाचार्यजगद्गुरुश्रीमद्विजयनेमिसूरिभगवद्भ्यो नमः॥ इति श्रीमत्तपोगणगगनाङ्गणगगनमणि-सार्वसार्वज्ञशासनसार्वभौम-कोविदाकुलालङ्कार-- अखण्डविजयश्रीमद्गुरुराजविजयनेमिसूरीश्वरचरणेन्दिरामन्दिरेन्दिन्दिरायमाणेनान्तेवामिना शास्त्रविशारदेन कविरत्नेन व्याकरणवाचस्पतिना च महोपाध्यायलावण्यविजयगणिना प्रणीतो ॥धातुरत्नाकरः॥ ॥नामधातुप्रक्रियाविभागः॥ नत्वा श्रीनेमिनामानमाजन्मब्राह्मचारिणम्। तीर्थनाथं गुरुञ्चैव भारती जिनभाषिताम्॥१॥ धातुरत्नाकरे षष्ठं विभागं बालहेतवे। वाचकोपपदस्तन्वे लावण्यविजयो गणि॥२॥ निरूपिता यङ्लुबन्तप्रक्रिया। इदानीं नामधातुप्रक्रिया निरूप्यते। नामधातुत्वञ्च नामावयवकत्वे सति क्रियावाचकत्वं नामप्रकृतिप्रत्ययप्रयोज्यक्रियावाचकत्वं वा। एतदेवाभिप्रेत्योच्यते "यत्र नामैव प्रत्ययसम्बन्धाद्धातुत्वं याति स नामधातुरिति"। एवञ्च नामधातो मप्रकृतिक्रियावाचकप्रत्ययाधीनत्वेन तादृशाः प्रत्ययाः कतीति जिज्ञासायां सप्तति वक्तव्यम्। तथाहि। काम्य -क्यन क्विप्-क्यङ्-क्यङ्-णिङ्-णिच् इति सप्त प्रत्यया नामधातुनिष्पादका भवन्ति। तदेतत्प्रत्ययभेदेन नामधातुप्रकरणमपि सप्तधा भिद्यते। तथाहि । प्रथमं काम्यप्रत्ययान्तप्रकरणं द्वितीयं क्यन्प्रत्ययान्तप्रकरणं तृतीयं क्विप्प्रत्ययान्तप्रकरणं चतुर्थं क्यप्रत्ययान्तप्रकरणं पञ्चमं क्यक्षप्रत्ययान्त्प्रकरणं षष्ठं णिप्रत्ययान्तप्रकरणं सप्तमं च णिच्प्रत्ययान्तप्रकरणमित्तय। तत्र प्रथमं तावद् यथोद्देशन्यायेन काम्यप्रत्ययान्तप्रकरणं निरूप्यते॥ नन कीदृशान्नाम्न: कस्मिप्रत्ययो भवतीति चेद् गृहाणेदं सूत्रम्॥ द्वितीयायाः काम्यः।।३।४।२२॥ द्वितीयान्तान्नाम्न इच्छायामर्थे काम्यप्रत्ययो वा भवति। पुत्रमिच्छति पुत्रकाम्यति। इदंकाम्यति। स्व:काम्यति। काम्येनैव कर्मण उक्तत्वाद्भावकोरेव प्रयोगः.पुत्रकाम्यतेऽनेन। पुत्रकाम्यत्यसौ। द्वितीयाया इति किम् ? इष्टः पुत्रः । इष्यते पुत्रः। इह कस्मान्न भवति, भ्रातुः पुत्रमिच्छति, आत्मनः पुत्रमिच्छति, महान्तं पुत्रमिच्छति, स्थूलं, दर्शनीयं वा, सापेक्षत्वात्। न ह्यन्यमपेक्षमाणोऽन्येन सहैकार्थीभावमनुभवितुं शक्नोत्त। भ्रातुष्पुत्रकाम्यतीत्यादि तु समर्थत्वात्। अघमिच्छति, दुःखमिच्छतीत्यत्रापि परस्येत्यपेक्षितत्वात्सापेक्षत्वम्। कथं तर्हि पुत्रकाम्यतीत्यत्र पुत्रस्यात्मीयता गम्यतेऽन्यस्याश्रुतेरिच्छायाश्चात्मविषयत्वादिति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy