SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्रीतपोगच्छाधिपति-शासनसम्राट्-सूरिचक्रचक्रवर्ति-सर्वतन्त्रस्वतन्त्र-जगद्गुरुश्रीमद्विजयनेमिसूरीश्वरपट्टालंकार-व्याकरणवाचस्पति ' शास्त्रविशारद-कविरत्न-श्रीमद्विजयलावण्यसूरीश्वरशिष्यरत्नविद्वद्वर्यमुनिश्रीदक्षविजयशिष्यरत्नविद्वद्वर्यबालमुनिश्रीसुशीलविजयविरचितं ॥श्रीनेमिसूरीश्वराष्टकम् ॥ यज्ज्ञानं च निबन्धसिन्धुतरणे, नौकानिभं वर्त्तते। यद्वाणी शुभमानसाम्बुजरवि- नार्थसंबोधिनी।। यत्कीर्तिः किल दिक्षु विस्तृततरा, चंद्रोज्ज्वला सर्वदा। वन्देऽहं शुभपालपद्मयुगलं, तं नेमिसूरीश्वरम्॥१॥ यस्य क्षान्तिरनल्पकोपशमने, धाराधराभा वरा। नानाशिष्यप्रशिष्यवृन्दसहितं, सद्बोधिरत्नप्रदम्।। दुर्दान्तप्रतिवादिवादनिपुणं, सम्राट्पदालकृत। वन्देऽहं शुभपादपद्मयुगलं, ते नेमिसूरीश्वरम्॥२॥ नानातर्कपरायणं गुणयुतं, लावण्यलीलालय।। न्यायव्याकरणादिशास्त्ररचना-नैपुण्यभाजां वरम्।। तीर्थोद्धारधुरन्धरं मुनिवरं, चारित्ररत्नाकरं। वन्देऽहं शुभपादपद्मयुगलं तं नेमिसूरीश्वरम्॥३॥ वैराग्यद्रुमवर्धने जलधरं, श्वेताम्बराग्रसेरं। भव्यानामुपकारकारकुशलं सिद्धान्तपारङ्गत्तम्। नानादर्शनदर्शनामलधियं सद्ब्रह्मचर्याञ्चितं। वन्देऽहं शुभपादपद्मयुगलं तं नेमिसूरीश्वरम्॥४॥ गीतार्थानुसृते तथाऽऽगमगते, पान्थं पथि प्रोद्यते। विद्वद्वन्दसुवन्दितामलगुणं, विद्वद्सभाभासुरम्।। यद्वाचा विमलाचलादिप्रभृतेः, संघा वरा निर्गता। वन्देऽहं शुभपादपद्मयुगलं तं नेमिसूरीश्वरम्।।५।। नन्दीवर्धनकारितप्रतिमया, श्रीवर्धमानप्रभो। रम्ये काननमण्डिते मधुपुरे रत्नाकरालङ्कृते।। वर्षारम्भदिने महोदयकर, यज्जन्म जातं शुभं। वन्देऽहं शुभपादपद्मयुगलं तं नेमिसूरीश्वरम्॥६॥ लक्ष्णीचन्द्र इति श्रुतस्सुजनको, यस्यास्ति धर्मोद्यत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy